सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ तत्तादृशात्युज्ज्वलकीर्तिराशिः समस्तशास्त्रार्णवपारदर्शी । आसादितो धर्महितः प्रयत्ना त्स चेन्न रोचेत न दृश्यतेऽन्यः ।। ४० ।। अहं बहूनामनभीष्टकार्य न कारयिष्ये हि महानिबन्धे ॥ किंचात्र संशीतिरभून्ममातो यदेककार्ये बहवः प्रतीपाः ॥ ४१ ॥ भवन्निदेशाद्रगवन्सनन्दनः करिष्यते भाष्यनिबन्धमीप्सितम् । श्रीमच्छकरदिग्विजयः । - मतिप्रकर्षे विदितो हि सर्वतः ॥ ४२ ॥ सनन्दनो नन्दयिता जनानां निबन्धमेकं विदधानु भाष्ये ।। न वार्तिकं तत्तु परप्रतिज्ञ यधात्प्रतिज्ञां स हि नृढनदीक्षः ।। ४३ ।। [ सर्गः १३] नकी वृत्तम् ।। ४० । [ तत्तादृशेति । एतेन लोकशास्त्राभयमवृत्तिचातुर्यमपि तत्र पृचितम् ] ॥ ४० ॥ ननु भवदभीष्टं चेत्तहिं कारथितव्यमिति तत्राह । अहमिति । महानिबन्धे बहू नामनभीष्टं कार्यं न कारयिष्ये किंच यत एकस्मिन्कार्ये बहवः प्रतिकृला अतोऽत्र मंशयो ममोत्पन्न इत्यर्थः । उपजातिवृत्तम् ।। ४१ । [ संशति: किमिदं निर्वित्रं स्यान्नवेति संदेहः ] ।। ४१ ।। एवमुक्ता वनया न दृश्यतेऽन्य इत्युनक्तमसहमाना ऊचुः । ह भगवन्भवदाज्ञात : सनन्दन ईप्सितं भाप्ये निबन्धं करिष्यति । यतः स ब्रह्मचर्यादङ्गीकृताश्रमो मतेः प्रकष यस्थै स सर्वतो विज्ञातश्च । वंशस्थं वृत्तम् ।। ।। ४२ एवमुक्त आचार्य उवाच । जनानां नन्दयिता सनन्दनो भाप्ये निबन्वमेकं विद् धातु न तु वार्तिकं तत्तु परमतिज्ञ परस्य प्रतिज्ञा यस्मिन् । हि यतै: नृत्नदाक्षः सुरेश्वरः प्रतिज्ञां व्यधात् । उपेन्द्रवत्रा वृत्तम् ॥ ४३ ॥ [ नूत्नेति । नृत्ना नर्वाना दीक्षः संन्यासदीक्षा यस्य स तथा । एतादृशा: स सुरेश्वरः ] ॥ ४३ ॥

  • क. 'दृशोऽत्यु'। २ क. घ. 'स्य सर्व'। ३ क. ख. ग. यत: स्वीकृतदी' ।