पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तस्यान्तिके काचन विप्रकन्या द्विहायनं जातु निवेश्य बालम् ॥ क्षणं प्रतीक्षस्व शिशु द्विजेति स्रातुं सस्वीभिः सह निर्जगाम ॥ ३९ ॥ अत्रान्तरे दैववशात्स बाल श्चङ्क्रम्यमाणो निपपात नद्याम् ॥ मृतं तमादाय शिशु तदीया श्चक्रन्दुरुचैः पुरतो महर्षेः ॥ ३६ ॥ आक्रोशमाकण्र्य मुनिः स तेषा मत्यन्तस्विन्नो निजयोगभूम्रा ॥ प्राविक्षदङ्गं पृथुकस्य तस्य स एष हस्तामलकस्तपस्वी ॥ ३७ ॥ तस्मादयं वेद विनोपदेशं श्रुतीरनन्ताः सकलाः स्मृतीश्च । सर्वाणि शास्राणि परं च तत्त्व मज्ञातमेतेन न किंचिदस्ति ॥ ३८ ॥ तत्तादृगात्मा न बहि: प्रवृत्तौ नियोगमर्हत्ययमत्र वृत्तौ ॥ स मण्डनस्त्वर्हति बुद्धतत्वः सरस्वतीसाक्षिकसर्ववित्वः ॥ ३९ ॥ जातु कदाचित्तस्य सिद्धस्य समीपे काचन विप्रकन्या द्विवर्ष बालकं संस्थाप्य हे द्विज क्षणमात्रं बालं प्रतीक्षस्वेत्युक्त्वा सखीभिः सह स्नातुं निर्जगाम ॥ ३५ ॥ महर्षेः पुरतश्चक्रन्दुराक्रोशं चक्रुः ॥ ३६ ॥ तस्य पृथुकस्य बालस्याङ्गं शरीरं प्रविवेश स तपस्व्येष हस्तामलकः ॥ ३७ ॥ [ निजेति । स्वयोगैश्वर्यमहिन्नेत्यर्थः ] ॥ ३७ ॥ यस्मादेवं तस्मादयमुपदेशं विनैवानन्ताः श्रुतीः सकलाः स्मृतीश्च सर्वाणि च शास्त्राणि परं च तत्त्वं जानाति किं बहुनाऽनेनाज्ञातं किंचिदपि नास्ति । ३८ । तत्तस्मात्तादृगात्माऽयं हस्तामलको बहिः प्रवृत्तावत्र भाष्ये वृत्तौ नियोगं नार्हति । स मण्डनस्त्वर्हति । यतो बुद्धतत्त्वः सरस्वतीसाक्षिकं सर्वज्ञत्वं यस्य सः ॥ ३९ ॥ मयत्नालब्ध एवंविधः स न रोचेत चेत्तर्हि तथाविधोऽन्यो न दृश्यते । आख्या १ ख. एव । २ घ. 'स्ख्ये ४७३ व ह'।