पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ श्रीमच्छकरदिग्विजयः । जनैर्जडत्वेन विनिश्चितोऽपि ब्रवीति यद्येष परात्मतत्त्वम् ॥ प्रज्ञोन्नतानामपि दुर्विभाव्यं किं वण्र्यतेऽर्हन्भवतः प्रभावः ॥ ३० ॥ आ जन्मनः संसृतिपाशमुक्तः शिष्योऽस्त्वयं विश्वगुरोस्तवैव ।। प्रफुल्छराजीवने विहारी कथं रमेत क्षुरके मरालः ॥ ३१ ॥ विज्ञाप्य तस्मिन्निति निर्गतेऽसौ तदाप्रधृत्यत्र वसत्युदारः । आा शैशवादात्मविलीनचेता कथं प्रवर्तेत महाप्रबन्धे ॥ ३२ ॥ श्रुत्वेति पप्रच्छुरमुं विनेया स्वामिन्विनैव श्रवणाद्युपायैः । अंलब्ध विज्ञानमयं कथं वा भवानिदं साधु विदांकरोतु ॥ ३३ ॥ तानब्रवीत्संयमिचक्रवत कश्चित्पुरा यामुनतीरवतीं ॥ बभूव सिद्धः किल साधुवृत्त सांसारिकेभ्यः मुतरां निवृत्त ॥ ३४ ॥ [ सर्गः १३] तामुदाहरति । जनैरिति । प्रज्ञयोन्नतानामपि दुर्विभाव्यं परमात्मतत्त्वं यचेष त्वत्समीपमागतो ब्रवीति तर्हि हेऽईन्भवत: प्रभावः किं वण्र्यते । उपजाति वृत्तम् ॥ ३० ॥ तस्मादा जन्मनो जन्मप्रभृति संसृतिपाशमुक्तोऽयं विश्धगुरोस्तवैव शिष्योऽस्तु । यतः प्रफुलपद्मवने विहारी हंसः क्षुरके वने कथं रमेत ॥ ३१ ॥ इति विज्ञाप्य तस्मिन्मभाकरे निर्गते सति ॥ ३२ ॥ अथं विज्ञानं कथं लब्धवानिदं भवान्साधु सम्यग्बोधयतु ।। ३३ ।। एवं पृष्ट भाचार्यस्तस्य प्राग्भवीयं वृत्तान्तमुक्तवानित्याह । तानिति ॥ ३४ ॥