पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । बालैर्न चिक्रीड न चान्नमैच्छ न्न चारुवाचं ह्यवदत्कदाऽपि ।। निश्चित्य भृतोपहतं तमेन मानिन्यरेऽस्मन्निकटं कदाचित् ।। २६ ॥ अस्मानवेक्ष्यैव मुहुः प्रणम्य कृताञ्जलौ तिष्ठति बालकेऽस्मिन् ॥ इमामपूर्वा प्रकृतिं विलोक्य विसिऽिमये तत्र जनः समेत: ।। २७ ।। कस्त्वं शिशो कस्य सुत: कुतो वे त्यस्माभिराचष्ट किलैप पृष्ठः ।।

  • विस्मापयन्वृत्तमयैर्वचोभिः ॥ २८ ॥

तदा कदाऽप्यश्रुतिगोचरं त दाकण्र्य वाग्वैभवमात्मजस्य । पिता प्रपद्यास्य परं प्रहर्ष समश्रयां वाचमुवाच विज्ञ: ।। २९ ।। ४७१ न चिक्रीड क्रीडां न चकार ॥ २६ ॥ [ बालैः सहायं न चिक्रीड कदाऽपीति सर्वत्र योज्यम् । कचिदपि देशे काले वा नैव । भूतोपहतं पिशा क्रीडामकररांiदत्यथ: चग्रस्तम् । निश्चित्य निणीय ] ॥ २६ ॥ प्रकृतिं स्वभावम् । तत्र तस्मिन्स्थाने । समेतः संमिलितः ॥ २७ ॥ ‘कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि । एतन्मयो वद चार्भक त्वं मत्वीतये मीतिविवर्धनोऽसि' । इत्यस्माभिः पृष्टः पद्यमयैर्वचोभिर्विस्मापयन्नात्मानमानन्दघनस्वरूपमाचष्ट । इन्द्र वत्रा वृत्तम् ॥ २८ ॥ तस्मिन्काले कदाऽप्यश्रुतिगोचरं पुत्रस्य तद्वाग्वैभवमाकण्यस्य पिता परं महर्षे माप्य विज्ञः सप्रश्रयां वाचमुवाच । उपजातिवृत्तम् ॥ २९ ॥

  • एवं ह्यत्र प्रक्रिया पूर्वे वचसां प्रयोजकत्वमाश्रित्य णिजनन्तरं तेषां प्रयोज्यत्वमाश्रियैतदर्थस्य

च प्रयोजकत्वमाश्रित्य पुनर्णिच् ततः शतप्रत्ययः । एते शतपुफोरमगतिः प्रत्युक्तः ।