पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ श्रीमच्छंकरदिग्विजयः । योऽयं प्रयक्षः क्रियते हिताय हिताय नायं विफलत्वनर्थम् ॥ प्रत्येकमेवं गुरवे निवेद्य बोद्धा स्वयं कर्मणि तत्परश्च ॥ ६ ॥ यः सार्वलौकिकमपीश्वरमीश्वराणां प्रत्यादिदेश बहुयुक्तिभिरुत्तरज्ञः । कर्मव नाकनरकादिफलं ददाति नैवं परोऽस्ति फलदो जगदीशितेति ॥ ७ ॥ प्रत्येकमस्य प्रलयं वदन्ति पुराणवाक्यानि स तस्य कर्ता ॥ व्यासो मुनिजैमिनिरस्य शिष्य स्तत्पक्षपाती प्रलयावलम्बी ॥ ८ ॥ [ सर्गः १३] पद्मपादस्य प्रियाः सतीथ्यः शिष्याश्चित्सुखाद्यास्तं श्रीशंकराचार्य रहस्यनेन वक्ष्य माणप्रकारणाचुः ।५ ॥ योऽयं पयत्नो हिताय क्रियेतेऽयं हिताय न भवति । किं त्वयमनर्थे विशेषेण फलत्विति संभावनायां लोट् । इत्येवं प्रत्येकं गुरवे निवेद्योचुरित्यन्वयः । तदुदाहरति । स्वयं विद्वान्कर्मणि तत्परश्च य इति परेण संबन्धः ॥ ६ ॥ [ प्रयत्नः सुरेश्वराचार्य द्वारा वार्तिकरचनरूप । श्रीमद्भिरित्यार्थिकम् । हिताय क्रियते । यद्यपि सकलाज ज्ञासुसंशयाद्युच्छेदद्वारा मोक्षसिद्धयर्थमनुष्ठीयते तथाऽप्यसौ हिताय न भवति ] ॥ ६ ॥ यों मण्डनः सार्वलौकिकं सर्वलोकप्रसिद्धमीश्वराणां ब्रह्मादीनामीश्वरमपि बहुयुक्ति भिरुत्तरज्ञः प्रत्याख्यातवान् । एवंविधेन क्रियत इति व्यवहितेनान्वयः । कथमित्या काङ्क्षायामाहुः । कमेव स्वर्गनरकादिफलं ददाति । न त्वेवंविधोऽन्यो जगदीशिताऽ स्तीत्येवं प्रत्यादिदेश । वसन्ततिलका वृत्तम् ॥ ७ ॥ [नाकेति । ‘स्वर्गनाक' इत्यमरा त्स्वर्गनरकादीत्यर्थः । भादिना मनुष्यशरीरादेहः] ॥ ७ ॥ ननु तस्य को दोषो जैमिनेरेवाभिपायस्य तथाविधत्वादित्याशङ्कयाऽऽहुः । अस्य प्रत्यक्षादिभिः संनिधापितस्य जगतः प्रलयं प्रत्येकं पुराणवाक्यानि वदन्ति तस्यू पुराणवाक्यजातस्य स प्रसिद्धो व्यासो मुनिः कर्ता जैमिनिरस्य शिष्योऽतस्तत्पक्षपा तित्वावश्यंभावेन प्रलयावलम्बीत्यवश्यमभ्युपगन्तव्यम् । उपजातिवृत्तम् ॥ ८ ॥ १ क. 'यते तुभ्यं हि'।