पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । गुरोश्च शिष्यस्य च पक्षभेदे कथं तयोः स्यादुरुशिष्यभावः । तथाऽपि यद्यस्ति स पूर्वपक्ष सिद्धान्तभावस्तु गुरुक्त एव ॥ ९ ॥ आ जन्मनः स खलु कर्मणि योजितात्मा कुर्वन्नवस्थित इहानिशमेव कर्म । बृते पररांश्च कुरुतावहिताः प्रपन्ना त्स्वर्गादिकं मुखमवाप्स्यथ किं वृथाध्वे ॥ १० ॥ एवंविधेन क्रियते निबन्धनं यदि त्वदाज्ञामवलम्ब्य भाष्यके ।। मा च्यावि मूलादपि वृद्धिमिच्छता ॥ ११ ॥ संन्यासमप्येष न बुद्धिपूर्वकं व्यधत्त वादे विजितो वशो व्यधात् ॥ तस्मान्न विश्वासपदं विभाति नो मा चीकरोऽनेन निबन्धनं गुरो ॥ १२ ॥ ४६७ विपक्षे बाधकमाहुः । गुरोश्च शिष्यस्य च पक्षभेदे सति तयोर्गुरुशिष्यभावः कथं स्यात् । अङ्गीकृत्याप्याहुः । यदि पक्षभेदोऽस्ति तथाऽपि स शिष्यपक्षः पूर्वपक्षः सिद्धान्तत्वं तु गुरुक्त गुरुप्रतिपादिते पक्ष एवेत्यर्थ ।॥ ९ ॥ किंच स खल मण्डन अभा जन्मनः कर्मणि योजितात्माऽनिशामिह लोके कर्म कुर्व त्रेवावस्थितः समाहिताः प्रयत्नात्कर्म कुरुत स्वर्गादिकं सुखं प्राप्स्यथ व्यर्थमागे किमिति परांश्च बूते । वसन्ततिलका वृत्तम् ॥ १० ॥[ वृथाध्वे वृथा व्यर्थो योऽध्वा मार्गस्तस्मिन्नित्यर्थः ] ॥ १० ॥ तथाचैवंविधेन त्वदाज्ञामवलम्ब्य भाष्यके यदि निबन्धनं क्रियते तर्हि स भाष्यं केवलं कर्मपरं योक्ष्यते तस्माद्वद्धिमिच्छता त्वया मृलादपि मा च्यावि। प्रच्युतिर्न विधे येत्यर्थः । उपजातिवत्तम् ॥ ११ ॥ नन्विदानीं तु स्वीकृतसंन्यास इयं संभावना नास्तीत्याशङ्कयाऽऽहुः । संन्यास समपीति । तस्मान्नोऽस्माकं विश्वासस्थानं न विभाति तथाच हे गुरोऽनेन निबन्धनं मा चीकरो नैव कारय ॥ १२ ॥