पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मम यत्करणीयमस्ति ते त्वमिमं मामनुशाध्यसंशयम् ।। तदिदं पुरुषस्य जीवितं यदयं जीवति भक्तिमान्गुरौ ॥ २ ॥ इतीरिते शिष्यवरेण शिष्यं प्रोचे दरीयानतिहृष्टचेताः ।। मत्कस्य भाष्यस्य विधेयमिष्टं निबन्धनं वार्त्तिकनामधेयम् ॥ ३ ॥ द्रष्टुं सतर्क भवदीयभाष्यं गम्भीरवाक्यं न ममास्ति शक्तिः । तथाऽपि भावत्क टाक्षपाते यते यथाशक्ति निबन्धनाय ॥ ४ ॥ अस्त्वेवमित्यार्यपदाभ्यनुज्ञा मादाय मूर्धा स विनिर्जगाम । अथाम्बुजाङ्प्रेर्दयिताः सतीथ्र्या स्तं चित्सुखाद्या रहसीत्थमूचुः ।। ५ ।। ४६ यदुवाच तदाह । मम यत्ते करणीयमस्ति तत्त्वमिमं मामसंशयमनुशाध्याज्ञापय । यतो यदयं गुरौ भक्तिमान्सञ्जीवति तदिदमेव पुरुषस्य जीवितम् । वियोगिनी वृत्तम् ॥ २ ॥ मत्कस्य मदीयस्य भाष्यस्य वार्तिकनामधेयमिष्टं निबन्धनं त्वया विधेयम् । उपजातिवृत्तम् ॥ ३॥ [ वार्तिकेति । ‘उक्तानक्तदरुक्तानां चिन्ता यत्र प्रवनेते । तं ग्रन्थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः’ इति पाराशरपुराणोक्तलक्षणवार्तिकसंज्ञकमित्यर्थः ] ॥ ३ ॥ इत्युक्तः शिष्य उवाच । तर्कयुक्तं गम्भीरवौक्यं भवदीयभाष्यं द्रधुमपि मम शक्ति नोस्ति तद्वार्तिकविधानसामथ्र्य तु दूरनिरस्तम् । यद्यप्येवं तथाऽपि भवदीयकटाक्षपाते सति यथाशक्ति निबन्धनार्थ यत्नं कुर्वे ॥ ४ ॥ [ सतर्कम् । अनेकविधभेदवाद्युन्मूल कैस्तकैः प्रमाणानुग्राहकैव्यौप्यारोपेण व्यापकारोपयुक्तिविशेषैः सहितमित्यर्थः]॥४॥ अस्त्वेवमित्यार्यपादाभ्यनुज्ञां मूर्धाऽऽदाय स सुरेश्वरो विनिर्जगाम । अथानन्तरं १ घ. 'वाचं न'। २ ग. 'वाचं भ।