पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समिन्धानो मन्थाचलमथितसिन्धूदरभव त्सुधाफेनाभेनामृतरुचिनिभेनाऽऽत्मपशसा ॥ निरुन्धानो दृष्टया परमह पन्थानमसतां पराधृष्यैः शिष्पैरमत विशिष्यैष मुनिराट् ॥ १३१२ ।। इति श्रीमाधवीपे तद्धस्तधात्र्यादिसंश्रयः । संक्षेपशंकरजये सर्गेऽयं द्वादशोऽभवत् ॥ १२ ॥ अथ त्रयोदशः सर्गः । ततः कदाचित्प्रणिपत्य भक्तया सुरेश्वराये गुरुमात्मदेशम् ॥ शारीरकेऽत्यन्तगभीरभावे वृत्ति स्फुटं कर्तुमना जगाद ।॥ १ ॥ [ सर्गः १३] मन्थाचलेन मथितात्सिन्धोर्भवन्त्याः सुधायाः फेनस्याऽऽभावदाभा यस्यामृतका न्तिनिभेन ततुल्येन स्वयशसा देदीप्यमानः स्वदृष्टयाऽपरं निकृष्टं परमन्यं वाऽसतां पन्थानं निरुन्धानः परैरधृष्यैः शिष्यै सह मुनिराट्श्रीशंकरो विशेषेणारमत। शिखरिणी वृतम् ॥ १३१२ ।॥ [ अमृतेति । पीयूषकिरणसदृशेनेति यावत । यद्वा । अमृते कैवल्ये विषये रुचिः मीतिर्नितरां भाति प्रस्फुरति येन तत्तथा तेनेत्यर्थः ] ॥ ८९ ।। [इति श्रीति । तद्धस्तेति । तस्य भगवत्पादस्य इस्तधात्रयादेईस्तामलकादेरा दिना तोटकाचार्यः संश्रयोऽवलम्बो यत्र स तथेत्यर्थः ] ।। १२ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवं शावतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशंकराचार्यवि जयडिण्डिमे द्वादशः सर्गः ॥ १२ ॥ अथ वार्तिकान्तब्रह्मविद्यामवृत्तिं सपरिकरां निरूपयितुमारभते । ततः कदाचिदा त्मोपदेष्टारं यद्वाऽऽत्मदानामीशं गुरुं भक्त्या प्रणिपत्य सुरश्धरायऽत्यन्तं गैभीरो भावो यस्य तथाभूते शारीरकभाष्ये वृत्तिं स्फुटं यथा स्यात्तथा कर्तुमना बभाषे । उपजातिवृत्तम् ॥ १ ॥ १ घ. *श्वराचार्योऽ। २ ख. ग, घ. गम्भीरो ।