पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४६३ तोटकाह्वयमवाप्य महर्षे ख्यातिमाप स दिशासु तदादि । पद्मपादसदृशप्रतिभावा न्मुख्यशिष्यपदवीमपि लेभे ॥ ८६ ॥ पुमर्थाश्चत्वारः किमुत निगमा ऋक्प्रभृतय प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुस्वराः ॥ मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा विदुः शिष्यान्हस्तामलकमुखराञ्शंकरगुरोः ॥ ८७ ॥ स्फारद्वारप्रघाणद्विरदमदसमुछोलकछोलभृङ्गी संगीतोछासभङ्गीमुखरितहरितः संपदोऽकिंपचानैः ॥ निष्ठीव्यन्तेऽतिदूरादधिगतभगवत्पादसिद्धान्तकाष्ठा निष्ठासंपद्विजूम्भन्निरवधिसुखदस्वात्मलाभैकलोभैः ॥ ८८ ॥ नात्मकप्रथमश्लोकोपन्यासमात्रेणैव पूर्वोत्तरकाण्डयोः साधनादिभावलक्षणसंगतिसूचक त्वादनल्पनीतित्वमपीति ध्येयम् । ] ||८५ ॥ महर्षेः श्रीशंकरात्तोटकाख्यामवाप्य तदारभ्याऽऽशासु ख्यातिमाप । स्वागता वृत्तम् ॥ ८६ ॥ [ दिशासु । भागुरिमतेन टाप्] ।। ८६ ।। हस्तामलकपद्मपादसुरेश्वरतोटकाख्येष्वाचार्यशिष्येषु विबुधकृतविमर्श दर्शयति । धर्मार्थकाममोक्षारूयाश्चत्वारः किमुतग्र्यजुःसामाथर्वणाख्या वेदाः किंवा सालोक्यम मुखाः सालोक्यसामीप्यसारूप्यसायुज्याख्या मुक्तभेदा माहोस्विद्रह्मणो मुखानीति विबुधा देवाः पण्डिता वा चिरं विमृश्य विचार्य हस्तामलकादीञ्शंकरगुरोः शिष्या न्विदुः । शिखरिणी वृत्तम् ।। ८७ ।॥ [ हस्तामलकस्याऽऽद्यत्वं त्वनुपदिष्टब्रह्मवि द्यावत्वेऽपि श्रीमद्भाष्यकारदर्शन एव प्रकटितस्वानुभवत्वादेवेति बोध्यम् ] ॥ ८७ ।। स्फारद्वाराणां विस्तीर्णद्वाराणां प्रघाणेषु बाह्यप्रकोष्ठषु द्विरदानामैरावतप्रभृतीनां गजानां मदस्य समुलोलेष्वतिचञ्चलेषु कोलेषु या भृङ्गयस्तासां संगीतस्योछास भङ्गन्या मुखरिता मुखरीकृता ध्वनिता हरितो दिशो यासु ताः स्वर्गसंपदोऽधिगता या भगवत्पादसिद्धान्तकाष्ठा तस्यां निष्ठायाः संपद उलसन्निरवधिकसुखदस्य स्वात्मनो लाभस्यैको मुख्यो लोभो येषां तैरपिचानैरयुदरैिर्निष्ठीव्यन्ते थूक्रियन्ते । स्रग्५॥ वृत्तम् ॥ ८ ॥