पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ श्रीमच्छंकरदिग्विजयः । प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।। श्लोकास्तु हस्तामलकाः प्रसिद्धा स्तत्कर्तुराख्याऽपि तथैव वृत्ता ॥ ५७ ॥ विनोपदेशं स्वत एव जात परात्मबोधो द्विजवर्यसूनोः ॥ व्यस्मेष्ठ संप्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपोत्तमाङ्गे ॥ ५८ ॥ [ सर्गः १२] मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्यस्वरूप: स नित्योपलब्धिवस्वरूपोऽहमात्मा ॥ ५ ॥ य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धषु । शाररावादकस्था यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥ यथाऽनेकचक्षु:प्रकाशो रविर्न क्रमेण प्रकाशकरोति यकाश्यम् । अनेका धियो यस्तथैकप्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥ विवस्वत्प्रभातं यथा रुपमक्ष प्रगृह्णाति नाऽऽभातमेवं विवस्वान् । तथा भात आभासयत्येकमक्ष स नित्योपलब्धिस्वरुपोऽहमात्मा ॥ ८ ॥ यथा सूर्य एकोऽप्यनेकश्चलासु स्थिरास्वप्सु चैकोऽग्भिाव्यस्वरूपः । चलासु प्रभिन्नः स्वधीष्वेक एव स नित्योपलब्विस्वरूपोऽहमात्मा ॥ ९ ॥ घनच्छन्नदृष्टिर्घनच्छन्नमर्क यथा मन्यते निप्प्रभं चातिमूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥ समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यं न स्पृशन्ति । वियद्वत्सदा शुद्धमच्छस्वरूप: स नित्योपलब्धिस्वरूपोऽहमात्मा || ११ ॥ उपाधों यथा भदता सन्मणीनां तथा भेदता बुद्धिभदषु तंऽपि । यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ॥ १२ ॥ इति । उपजातिवृत्तम् ॥ ५६ ॥ यदेकं परमात्मतत्वं तत्करस्थामलकफलवत्पकाशयन्तेऽतस्ते लोकास्तु हस्ताम लकाः प्रसिद्धास्तेषां कर्तुराख्याऽपि तथैव हस्तामलक इति वृत्ता प्रवृत्ता उपजाति वृत्तम् ॥ ५७ ॥ उपदेशं विना स्वत एव द्विजवर्यसृनोः परात्मबोधो जात इति संप्रेक्ष्य विस्मयं १ ग. 'विमुक्तः । २ क. घ. 'घु स एवो।