पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृताडण्डिमाख्यटीकासंवलितः । इतीरयित्वोपरते च विप्रे पप्रच्छ तं शंकरदेशिकेन्द्रः ॥ कस्त्वं किमेवं जडवत्प्रवृत्त स चाब्रवीद्धालवपुर्महात्मा ॥ ५४ ॥ नाहं जडः किंतु जडः प्रवर्तते मत्संनिधानेन न संदिहे गुरो ॥ पड़र्मिपड्भावविकारवर्जितं मुखैकतानं परमस्मि तत्पदम् ॥ ५५ ।। ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरुप्य विद्वन् ।। पचैः परैरद्वदशभिर्बभाषे चिदात्मतत्त्वं विधुतप्रपञ्चम् ॥ ५६ ॥ ४५३ इत्येवं कथयित्वा प्रभाकर उपरते सति तं शंकरदेशिकेन्द्रः पप्रच्छ ॥ ५४ ॥ कस्त्वमिति प्रश्रमस्योत्तरं वतुमादौ किमेवं जडवत्पवृत्तः इत्यत्राऽऽह । नाहं जड किंतु मत्संनिधानेन जडः प्रवर्तते । हे गुरोऽस्मिन्नर्थेऽहं न संदिहं तस्माच्छोकमोह क्षुधापिपासाजरामृत्युलक्षणषडूर्मिभिर्जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यतं त्युक्तषड्भावविकाँरश्च राहितं सुखैकतानं परं सर्वोत्तमं तत्पदमहमस्मि । परं देहेन्द्रि याद्यतिरिक्तं प्रत्यक्चैतन्यं तत्पदं शोधिततत्पदार्थभिन्नमिति वा ।। ५५ ॥[मुखेति । आनन्दैकरसमित्यर्थः ] ॥ ५५ ॥ हे विद्वन्ममेवैषाऽनुभूतिर्मुमुक्षुवर्गस्य भूयादिति निरूप्यान्थेद्वादशभिः पदैर्विधुतम पञ्धं चिदात्मतत्वं बभाषे तथा हि । निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविलॉकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ।। १ ।। यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । पवर्तन्त अाश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरुपोऽहमात्मा ।। २ ।। मुखाभासको दर्पणे दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्ति वस्तु । चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलष्धिस्वरूपोऽहमात्मा ॥ ३ ॥ यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाईनमेकम् । तथा धीवियोगे निराभासको यः ग्य नित्योपलब्धिरवरूपोऽहमात्मा ॥ ४ ॥ ५७