पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५२ श्रीमच्छंकरदिग्विजयः । तं देशिकेन्द्रः कृपयोदतिष्ठिपत् ॥ उत्थापिते स्वे तनये पिताऽब्रवी द्वद प्रभो जाड्यममुष्य किंकृतम् ॥ ५० ॥ पञ्चाष्ट जातस्य विनाऽवबोधम् ॥ नाध्यैष्ठ वेदानलिस्वच नाण नचीकरं चोपनयं कथंचित् ॥ ५१ ॥ क्रीडापरः क्रोशति बालवर्ग स्तथापि न क्रीडितुमेष याति । बालाः शठा मुग्धमिमं निरीक्ष्य संताडयन्तेऽपि न रोषमेति ॥ ५२ ॥ भुङ्के कदाचिन्न तु जातु भुङ्के स्वेच्छाविहारी न करोति चोक्तम् ॥ तथाऽपि रुष्टेन न ताडयतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३ ॥ [ सर्गः १२] उपात्तो गृहीतस्तदीयहस्तो येन स देशिकेन्द्रः श्रीशंकर उदतिष्ठिपदुत्थापित वान् ॥ ५० ॥ [ भवाङ्मुखमधोमुखम् । कृपया । शनकैः । उदतिष्ठिपत् । उत्था पितवानित्यन्वयः । अथैतत्पिता तं प्रति तज्जाड्यकारणं पप्रच्छेत्याह । उत्थापित इति ] ॥ ५० ॥ तजाड्यमेव वर्णयति । वर्षाणीति । पञ्चाष्ट त्रयोदशा । नाध्यैष्ट नैवाधीतवान् । अर्णान्वर्णान् । यथाकथंचिदुपनयं कृतवानस्मि ॥ ५१ ॥ [ अवबोधं विना व्यावहा रिकज्ञानं विनेत्यर्थः । भगवान्निति संबुद्धयैतत्तत्वं त्वदृतेऽन्यः कोऽपि न वेत्तीति सूच्यते ] ॥ ५१ ॥ एवं जाड्यं मदश्यदुतां तस्य चेष्टां वर्णयति क्रीडापर इति द्वाभ्याम् ॥ ५२ ॥ [ तत्र केचिद्दष्टाः शिशवस्त मग्वमिमं श्रत्वा यद्यपि संताड्यन्ते तथाऽप्येष नैव रोष मेतीत्याह । बाला इति ] ॥ ५२ ॥ यद्यप्येवं तथाऽांपे रुटन मयाऽयं न ताडयतं || ५३ ॥ [ किंच भोजनेऽप्यस्या नुत्साह एव यदा तदा कैवाऽन्यवार्तेत्याह । भुङ्कः इति । रुटेन मयेति शेषः । स्वक र्मणा नित्यं वर्धत एवायमिति संबन्धः ] ॥ ५३ ॥