पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ॥ वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽथे जडिमास्पदेन ॥ ५९ ।। स वेत्ति सम्यङ्न च वक्ति किंचित् ॥ नो चेत्कथं स्वानुभवैकगर्भ पद्यानि भाषेत निरक्षरास्य ॥ ६० ॥ न सक्तिरस्यास्ति गृहादिगोचरा नाऽऽत्मीयदेहे नमतोऽस्य विद्यते । तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ।। ६१ ।। इतीरयित्वा भगवान्द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः । विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्प्रदेशं स्थिरधर्बहुश्रुतः ॥ ६२ ॥ ४५९ प्राप्तो देशिकेन्द्रो द्विजवर्यसूनोः शिरसि स्वहस्तं न्यधात् ॥ ५८ ॥ [ स्वहस्तं निज दक्षिणपाणिम् ] ॥ ५८ ॥ उदाहृतपद्यान्युक्त्वा सुते निवृत्ते मति देशिकेन्द्रस्तदीयं पितरं वचनं बभाषे । तदाह । भवता सहायं वस्तुं योग न भवति । किंचामुना जडतास्पदेन तव किंचि त्प्रयोजनं नास्ति ।॥ ५९ ।। नन्वेवं भृतेन तवापि किं प्रयोजनमित्याशङ्कयाऽऽह । पुराभवस्य पूर्वजन्मनोऽ भ्यासस्य वशेन स तव पुत्रः सर्वे जानाति ॥ ६० ॥ न वस्तुं योग्यो भवता सहायामयत्र हेतुमाह । अस्य गृहादिविषया सक्तिरास देहादन्यत्र क्तिर्नास्ति । तथाऽऽत्मीयदेहे भ्रमात्तादात्म्यताऽस्य न विद्यते । तथा ममति ज्ञानमस्य न विद्यते । सा तादात्म्यता तु यदा स्वे देहे नास्ति तदा बाह्यव स्तुषु सा नास्तीति किमुवक्तव्यम् ।। ६१ । [ भ्रमतोऽनाद्यविद्यादिभ्रमेणे त्यर्थः ] ॥ ६१ ॥ इतीरथित्वा भगवान्द्विजात्मजं गृहीत्व पुनरीप्सितां दिशं ययौ। । प्रभाकरसंशो