पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० विलासिनाऽलीकभवेन धात्रा कामं द्विषन्तं स दशास्यमस्यन् ॥ देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुस्वानुभूतिम् ॥ १५ ॥ श्रीमच्छकरदिग्विजयः । श्रीरामचन्द्रावतारं निरूपयन्नाह । अलीकमसत्यो भवः संसारो यस्मिस्तथाभूतेन विलासिना स्वधाम्रा स्वज्योतिषा यथेष्टं द्विषन्तं रावणमस्यत्रुत्क्षिपन्नाशायन्धरा भूमि स्तस्या अपत्यं सीता तस्याः कुचयोरुष्णतायाः साक्षी साक्षाद्रष्टा स देवोऽमन्दसुखा नुभूतिममितब्रह्मानन्दानुभवं देयात्। पक्षे दशेन्द्रियाणि मुखानि यस्य तथाभूतं द्विषन्तं कामस्यन्धरस्य पर्वतस्यापत्यं पार्वती तस्याः कुचोष्मसाक्षीति व्याख्येयम्। वरो गिरौ। ‘कापसतूलके कृर्मराजे वस्वन्तरेऽपि च ' इति मेदिनी ।। १५ ।॥ [ विलासीति । विलसन्त्यमोघत्वेन सर्वदा शोभन्त इति तथा ते च ते नालीका: शारविशेषाः “नालीकः शरशाल्याज्ञेष्वब्जखण्डे नपुंसकम् [ सर्गः १२ ] इति मेदिन्याः प्रसिद्धा एव तेभ्यो भवति विश्वामित्रोपदिष्टाखिलधनुर्वेदनिमित्तका स्रद्वारा प्रादुर्भवतीति तथा तेनेत्यर्थः । एतादृशेन धाम्रा ] [ देवो दीव्यतीति तथा जिगीषारसिकः क्रीडारापिकश्चेत्यर्थः । पक्षे विलासिना विशेषेण प्रकाशमानेन । दशेति । मदनम् ] ।। १५ ।। ‘चक्षरागः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः । निद्राछेदस्तनता विषयनिवृत्तिस्त्रपानाशा । उन्मादो मृन्छ मृतिरित्येताः स्मरदशा दशैव स्युः' इत्युक्तश्चक्षुरागाद्दिशावस्थारुपाण्येव विश्वभक्षणार्थमास्यानि यस्य तमित्यर्थः । एतादृशं द्विषन्तम् ‘आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरुपेण कौन्तेय दुष्परेणानलेन च' इति 'ज्ञान त्वात्मैव मे मतम्’ इति च स्मृतेज्ञनिद्वषद्वारा स्वद्वेषं कुर्वाणं तथा