पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्पटीकासंवलित ॥ उत्तालकेतुः स्थिरधर्ममूर्ति हलाहलस्वीकरणोग्रकण्ठः ।। स रोहिणीशानिशचुम्ब्यमान निजोत्तमाङ्गोऽवतु कोऽपि भूमा ॥ १६ ॥ विनायकेनाऽऽकलिताहितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् । यः पूतनामोहकचित्तवृत्ति रव्यादसौ कोऽपि कलापभूषः ॥ १७ ॥ ४४१ अथ बलरामावतारं वर्णयन्नाह । उचतालकेतुः स्थिरा धर्ममयी धर्माय वा मुर्ति र्यस्य हालाहलयोः सुराहलयोः स्वीकरणः ! 'हाला सुरायाम्' इति मेदिनी । तथाऽपि श्रेष्ठकण्ठो रोहिणीशेन वसुदेवेनानिशं चुम्ब्यमानमुत्तमाङ्गं शिरो यस्य स कोऽपि भूमाऽवाङ्मनसगोचरः । ‘यत्र नान्यत्पश्यति नान्यच्छुणोति नान्यद्विजानाति स भूमा ' 'यो वै भूमा तत्सुखम्’ इति श्रुत्युपलक्षितः परमात्माऽवतु। पक्ष उत्कृष्टताले गीतकाले केतू रुग्यस्य । मोक्षधर्ममयी मोक्षधर्मीय वा मूर्तिर्यस्य मोक्षधर्मस्य मूर्तिः कार्य तत्प्राप्य इति वा । हालाहलस्य विषस्य स्वीकरणेनोग्रकण्ठोहालाहलस्वीकरणोऽपि श्रेष्ठकण्ठ इति वा । रोहिणीशश्चन्द्रः । ‘तालः करतलेङ्गष्ठमध्यमायां च संमिते । गीतकालक्रियामाने करस्फाले दुमान्तरे । केतुर्ना रुक्पताकारिग्रहोत्पातेषु लक्ष्मणि । स्थिरा भूशालपण्यन शनैौ मोक्षे बले त्रिषुः' ।

  • मूर्तिः कार्यकाठिन्ययोः स्त्रियाम्' इति मेदिनी ॥ १६ ॥ [ उत्तालेति । उत्क

टस्तालस्तालाख्यवृक्ष एव केतौ ध्वजे यस्य स तथेत्यर्थः ] ॥ १६ ॥ अथ श्रीकृष्णावतारं वर्णयन्नाह । आकलिताद्दितापं समासादिताहितापं यथा स्यात्तथोत्सङ्गभुवि समीपस्थाने निषेदुषा निषण्णेनोपविष्टन विनायकेन गरुडेनोपल क्षितो यः पूतनाया मोहिका चित्तवृत्तिर्यस्य । कलापो बहँ भूषाऽलंकारो यस्यासै। कोऽपि वर्णयितुमशक्यः प्रहृष्यन्सन्नव्यात् । संसृतिलक्षणादनर्थादवतु । पक्ष अभाक लिताः शुण्डया समासादिताः शिवशिरसि स्थापिता आपो यस्यां क्रियायां तथाऽङ्क स्थाने निषेदुषा विनायकेन विघ्रराजेनोपलक्षितो यः पूतं पवित्रं नाम यस्योद्दिकेषु स्वचिन्तकेषु चित्तवृत्तिर्यस्य तेषां चित्तवृत्तिर्यस्मिन्निति वा । कलापस्तूर्ण भूषा यस्या