पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । समावहन्केसरितां वर यः सुरद्विषत्कुञ्जरमाजघान । प्रह्लादमुच्छासितमादधानं पञ्चाननै तं प्रणुमः पुराणम् ॥ १२ ॥ उदैतु बल्याहरणाभिलाषो पो वामनो हार्यजिनं वसानः ॥ तपांसि कान्तारहितो व्यतानी दाद्योऽवतादाश्रमिणामयं नः ॥ १३ ॥ येनाधिकोद्यत्तरवारिणाऽऽथु जितोऽर्जुनः संगररङ्गभूमौ ॥ नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ।। १४ ।। ४३९ अथ वृसिंहावतौरं निरूपयन्नाह । तं पश्चास्यं सिंहं परमात्मानं पुराणं सदैकरसं प्रणुमः । तं कमिति तत्राऽऽह । यो वरां . केसरितां नृहरितां समावहन्पुराद्वषतां कुञ्जरं हिरण्यकशिपुमाजघान तं पुनः प्रह्लादमुलासितमादधानम् । पक्षे पञ्चमुखं सदा शिवं यः के शिरसि सरितां नदीनां मध्ये वरां श्रेष्ठां श्रीगङ्गां समावहन्सुरशात्रं गजा सुरमाजघान । मकर्षेणाऽऽल्हादमुलासितमादधानमित्यर्थः ॥ १२ ॥ अथ वामनावतारं वर्णयन्नाह । यो बलेः सकाशात्रैलोक्याहरणाभिलाषः सुन्दरं मृगचर्म वसानो वामन उदैदुदितोऽभूत् । कान्तया रहितस्तपांसि व्यतानीत्सोऽयमा श्रमिणामाद्यो ब्रह्मचारी नोऽस्मानवतात् । पक्षे यो मनोहारि मनोज्ञमजिनं वसानो दक्षाध्वराद्वलेराहरणाभिलाष उदैत्कान्तया सत्या । उपजातिवृत्तम् ॥ १३ ॥ अथ परशुरामावतारं निरूपयन्नाह । येनाधिकं यथा स्यात्तथोद्यत्तरेण वारिणा बालकेन परशुरामेणार्जुनः कार्तवीर्यः शीघ्र संगररङ्गभूमौ युद्धरङ्गभूमौ जितः । वारिर्वग्गजबन्धन्योः स्रीकृीबेऽम्बुनि बालके । ‘अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्यादृवले पुनरन्यवन्' इति मेदिनी । नक्षत्रनाथवचन्द्रवत्स्फुरितेन तेन केनापि नाथेन वयं सनाथाः । पक्षेऽविकं शिरस्युद्यत्तरं वारि जलं यस्यार्जुनः पार्थः । नक्षत्रनाथेन स्फुरितोऽलंकृत इत्यर्थः ॥ १४ ॥

  • क. प्रह्लाद'। २ ग. ‘रं वर्णय'। ३ घ. 'द्विषां कु'। ४ ख. ग. घ. 'वं के। ५ क. ष्ठां ग।