४३८ श्रीमच्छंकरदिग्विजयः । यो मन्दरागं दधदादितेया न्सुधाभुजः स्माऽऽतनुतेऽविषादी ॥ स्वामद्रिलीलोचितचारुमूर्ते कृपामपार स भवान्विधत्ताम् ॥ १० ॥ उछासयन्यो महिमानमुचे स्फुरद्वराहीशकलेवरोऽभूत् ॥ तस्मै विदध्मः करयोरजस्र सायंतनाम्भेोरुहसामरस्यम् ॥ ११ ॥ एवं मत्स्यावतारमभिधायाथ कमठावतारं निरूपयन्नाह । यो मन्दरारूयमचलं दध दादितेयान्देवान्सुधाभुज आतनुते स्माविषादी खेदरहितः स भवानद्रेर्मन्दराचलस्य लीलायां भ्रमणात्मविलासार्थमुचिता योग्या चारुमूर्तिर्यस्य तस्य संबोधनं हेऽद्रिली लोचितचारुमूर्ते कूर्ममूर्ते स्वामपारां कृपां विधत्ताम् । पक्षे यो मन्दरागं मन्दरारूयपा दपं दधद्विषादी स्वयं विषभक्षको देवान्सुवाभुजो व्यातनुते स्माद्रौ कैलासे या लीला विलासस्वस्यामुचिता चारुमूर्तिर्यस्येति व्याख्येयम् । [ सर्गः १२] अगः स्यान्नगवत्पृथ्वीधरपादपयोः पुमान् । मन्दरस्तु पुमान्मन्थशैले मन्दारपादपे' इति मेदिनी । उपजातिवृत्तम् ॥ १०॥ [सुधेति । अमृताशिन इत्यर्थः । मन्देति । मन्दः स्वतःशून्यत्वालोकदृष्टिकल्पितत्वाच्च स्वल्पो यो रागस्तमित्यर्थः । दधद्धारय न्सन्निति यावत् ] ॥ १० ॥ अथं वराहावतारं वर्णयन्नाह । य उचैर्महेभूमेर्मानं चित्तोन्नतिमुलासयन्स्फुरैन्यो वराह्याः सूकर्या ईशो वराहीशास्तत्कलेवरस्तद्विग्रहोऽभूत् । ‘मानाश्चित्तोन्नतौ ग्रहे' इति विश्धप्रकाशः । पक्षे वराहीशकलेवरः शेषविग्रहस्तस्मै वराहीशो वासुकिः कलेवरे यस्येति वा । हस्तयोर्मुकुलितपद्मसाम्यमजस्र विदध्मः ॥ ११ ॥ [ उछासयन्निति । 'वाचिः पङ्किर्महिः केलिरित्याद्या हृस्वदीर्घयोः इति वाचस्पतेय महेः पृथ्व्या मानं विस्तारमुचैरूध्र्वम् । उलासयन्दंष्ट्राग्रेण धार यन्सन्नित्यर्थः । सायंतनेति । सायंकालिककमलसाम्यं मुकुलितत्वेन संपुटमित्यर्थः । पक्षे महिमानं सर्वेश्वरत्वेन माहात्म्यमित्यर्थः ] ॥ ११ ॥ १ क घ. 'थ वाराह'। २ ग. 'रन्त्या व ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३६
दिखावट