पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नैवाभ्यसूयामि वचस्त्वदीयं प्रीत्या प्रयच्छामि शिरोऽस्मदीयम् ।। को वाऽर्थिसात्प्राज्ञतमो वृकायं जानन्न कुर्यादिह बद्दपायम् ॥ २५ ॥ पतत्यवश्यं हि विकृष्यमाणं कालेन यत्नादपि रक्षमाणम् ॥ वऽममुना सिध्यति चेत्परार्थ स एव मत्यस्य परः पुमथ: ॥ २६ ॥ वर्ते विविक्तेऽधिसमाधि सिद्धिवि न्मिथः समायाहि करोमि ते मतम् । नाहं प्रकाशं वितरीतुमुत्सहे शिरःकपालं विजनं समाश्रय ॥ २७ ॥ शिष्या विदन्ति यदि चिन्तितकार्यमेत द्योगिन्मदेकशरणा विहतिं विदध्युः ॥ को वा सहेत वपुरतदपोहितुं स्वं को वा क्षमेत निजनाथशरीरमोक्षम् ॥ २८ ॥ ४२१ तद्वचनमुदाहरति । नेवेति । यत इह लोकं बहुनाशनिमित्तवन्तं नृकायं जानन्को वा प्राज्ञतमोऽर्थिसान्नकुर्यादपि तु कुर्यादेव । अन्यथा तस्य प्राज्ञतमत्वमेव कुत स्त्यमित्यर्थः । इन्द्रवज्रा वृत्तम् ॥ २५ ॥ [ त्वदीयं वचः । 'असूया तु दोषारोपो गुणेष्वपि' इत्यमरात्रैव गुणापलापेन दोषदुष्टं करोमीत्यर्थः ] ॥ २५ ॥ यतो यत्नादपि रक्ष्यमाणं शारीरं कालेनाऽऽकृष्यमाणमवश्यं पतति ततोऽनेन वष्र्मणा परमयोजनं सिध्यति चेत्तर्हि स एव मरणवर्मकस्य परः पुम्पार्थः । उपजा तिवृत्तम् ॥ २६ ॥ तस्माद्धे सिद्धिविद्यथा विविक्तऽहमधिपमावि समावैो वतें तथा भिथेो रहसि समा याहि तेऽभिमतं करोभि यतः शिरः कपालं प्रकटं दातुमहं नोत्सहेऽऽतो विजनं समाश्रय ॥ २७ ॥ कुत इति चेत्तत्राऽऽह । शिष्या यधेतचिन्तितं कार्ये जानन्ति तर्हि ते योगि न्विहति विदध्युस्तव कार्यस्य विनाशं कर्यः । यतो मदेकशरण । स्वशरीरत्यागव निजनाथशरीरमोक्षोऽप्यसह्य इत्याह । एतत्स्चं शारीरं त्यकं को वा सहेत निजनाथ शरीरस्य मोक्षं च को वा क्षेमेत । वसन्ततिलका वृत्तम् ॥ २८ ॥ 1 ध. सहेत