पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० श्रीमच्छकरदिग्विजयः । जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः ॥ आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥ २१ ॥ यद्यप्यदेयं ननु देहवद्भि र्मयाऽर्थितं गर्हितमेव सद्रिः ॥ तथाऽपि सर्वत्र विरागवद्भिः किमस्त्यदेयं परमार्थविद्भिः ॥ २२ ॥ अखण्डमूर्धन्यकपालमाहु संसिद्धिदं साधकपुंगवेभ्यः ॥ विना भवन्तं बहवो न सन्ति तद्वत्पुमांसो भगवन्पृथिव्याम् ॥ २३ ॥ प्रयच्छशीर्ष भगवन्नमः स्ता दितीरयित्वा पतितं पुरस्तात् ॥ तमब्रवीद्वीक्ष्य मुधीरधस्ता स्कृपालुरावृत्तमनाः समस्तात् ॥ ९४ ॥ [ सर्गः ११ ] स्वशरीरमदानसदृशं यशः:साधनं त्वन्यन्नास्त्येवेत्याह । जीमूतवाहारूयो निजी वनदायी दधीचिश्च स्वास्थिदायी द्वावपि प्रलयपर्यन्तं नाशशून्यं यशः प्राप्तौ कर्णपथं गतौ हि प्रसिद्ध हि यस्मात्कर्णपथं गताविति वा ॥ २१ ॥ [ शङ्खचूडारूयनागं विमो चयितुं गरुडाय स्वप्रमाणपदो जीमूतवाहनो नागानन्दनाटकादौ सुपसिद्ध एव ]॥२१॥ ननु देहस्यादेयत्वं जनन्किमिदमतिनिन्दितं पार्थयस इत्याशङ्कय यद्यप्येवं तथाऽपि परमार्थवित्वात्सर्वत्र विरागवतां भवादृशानां किमप्यदेयं नास्तीत्यालोच्य मार्थनां करोमीत्याह । यद्यपीति ॥ २२ ॥ नन्वन्यः कश्चिदेवंविधोऽन्विष्य प्राथ्र्य इंत्याशङ्कय यथाविधवस्य शिरो मम सिद्धिहेतुस्तथाविधो भवानेव न त्वन्य इत्याह । साधकश्रेष्ठभ्यः संसिद्विदमखण्डमूर्ध म्यस्याखण्डितरेतसः कपालमाहुर्न च भवन्तं विना हे भगवंस्तथाविधवीर्यवन्तः पुमांसो बहवः पृथिव्यां सन्ति ॥ २३ ॥ अतोऽवश्यं त्वमेव शिरः प्रयच्छ ते नमोऽस्त्वित्युक्त्वाऽग्रे पतितमधस्ताद्वीक्ष्य सुधीः कृपालुः समस्तादाकृष्टमना अब्रवीत् । उपेन्द्रवत्रा वृत्तम् ॥ २४ ॥ १ ग. 'जानता किमि'। २ ग. प्रार्थत इ'। ३ घ. त्वदन्य ।