पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । जनाः परशकथानभिज्ञा नक्त दिवा स्वार्थकृतात्मचित्ताः ॥ रिपुं निहन्तुं कुलिशाय वज्री दाधीचमादात्किल वाञ्छितास्थि ॥ १७ ॥ दधीचिमुख्याः क्षणिकं शरीरं त्यक्त्वा परार्थे स्म यशःशरीरम् ॥ प्राप्य स्थिरं सर्वगतं जगन्ति गुणैरनध्यैः खलु रञ्जयन्ति ॥ १८ ॥ वपुर्धरन्ते परतुष्टिहेतोः केचित्पशान्ता दयया परीताः ॥ अस्मादृशाः केचन सन्ति लोके स्वार्थेकनिष्ठा दयया विहीनाः ॥ १२ ॥ परोपकारं न विनाऽस्ति किंचि त्प्रयोजनं ते विधुतैषणस्य । अस्मादृशाः कामवशास्तु युक्ता युक्त विजानन्ति न हन्त योगिन् ॥ २० ॥ ४१९ यद्यप्येवं तथाऽपि त्वं परशावहं कर्मानुष्ठातुं किमिति प्रवृत्तोऽसीत्याशङ्कयाऽऽह । सर्वेऽपि मनाः परशकथानभिज्ञा यतो दिवानिशं स्वार्थ तत्पर आत्मा देहेन्द्रि यादिचित्तं च येषाम् । तत्रोदाहरणमाह । शत्रु निहन्तुं वत्रनिर्माणायेन्द्रो दाधी चमभिलषितमस्थि स्वीकृतवान् । तथाच यदा सात्विकमुख्यानामियं दशा तदाऽस्मद्वि धानां का कथेति भावः । उपजातिवत्तम् || १७ ॥ वदान्यैर्भवादृशैस्तु स्थिरस्य सर्वगतस्य यशः:शरीरस्य प्राप्तये क्षणिकत्वाच्छरीरमपि सुत्याज्यमेवेत्याशयेनाऽऽह । दधीचिमुख्या इति । उपजातिवृत्तम् ॥ १८ ॥ तथाच केचित्पशान्ता दयया व्याप्ता भवादृशा: परतुष्टिहेतोः शरीरं धरन्तेऽस्मा ष्टशास्तु केचन दयया विहीनाः स्वाथैकनिष्ठा लोकं सन्ति ॥ १९ ॥ तस्मात्परोपकारिणा त्वयाऽवश्यं शिरो देयमित्याशायवानाह । परोपकारं विना किंचित्प्रयोजनं तव नास्ति । यतः पुत्रवित्तलोकैषणाविनिर्मुक्तो भवानित्याह । विधुतैष णस्येति । ननु त्वयाऽपि ममेदं युक्तं न वेति विचार्य वक्तव्यमित्याशङ्कयाऽऽह । अस्मादृशास्तु हे योगिन्कामवशात्वान्हो कष्टं युनायुक्ते न विनानन्ति ॥ २० ॥