पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ श्रीमच्छकरदिग्विजयः । दिष्टयाऽद्य लोकस्य हिते चरन्तं सर्वज्ञमद्राक्षमहं भवन्तम् ॥ इतः परं सेत्स्यति मेऽनुबन्धः संदर्शनान्तो हि जनस्य बन्धः ॥ १३ ॥ मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ॥ आद्य पुनम मनसाऽप्यलभ्य ततः पर तत्रभवान्प्रमाणम् ॥ १४ ॥ शिरःप्रदानेऽदुतकीर्तिलाभ स्तवापि लोके मम सिद्धिलाभः ।। आलोच्य देहस्य च नश्वरत्वं यद्राचत सत्तम तत्कुरु त्वम् ॥ १५ ॥ तद्याचितुं न क्षमते मनो मे को वेष्टदापि स्वशरीरमुज्झतु ॥ भवान्विरक्तो न शरीरमानी परोपकाराय धृतात्मदेहः ॥ १६ ॥ दिष्टया भद्रं जातं मेऽनुबन्धः प्रकृतस्य कार्यस्यानुवर्तनं सेत्स्यति । 'दोषोत्पादेऽनुबन्धः स्यात्मकृतस्यानुवर्तने' इत्यमरः । यतो जनस्य बन्धो भवद्दर्शनावविरेव ॥ १३ ॥ [ सर्गः ११] इतः परं मेऽनुबन्धः सेत्स्यतीत्युत्केरतः परं राजा सर्वज्ञो वा मिलिष्यतीत्यभिप्राय नोपादद्यादित्याशयेनाऽऽह । मृधेति । तस्मात्सर्वविद्भवानव परं प्रमाणम् । आख्या नकी वृत्तम् ॥ १४ ॥ तस्मात्स्वस्य मम च लाभं देहस्य च नश्वरत्वमालोच्य शिरःपदानमुवितमेवेत्या शायेनाऽऽह । शिर इति । उपजातिवृत्तम् ॥ १५ ॥ [ सत्तम साधुश्रेष्ठ ]॥ १५ ॥ नन्वेवं याचितुं मनस्ते कुतः क्षमत इत्याशङ्कय भवतो विरक्तत्वादित्याह । ताच्छिरो याचितुं मनो मे नोत्सहते । यत इष्टदायि स्वशरीरं को वा त्यजतु भवांस्तु विरक्तत्वान्न देहमानी । संप्रति देहधारणमपि परोपकारायैव न त्वभिमाननिमित्तमि त्याह । परोकारापेति ॥ १६ ॥