पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ तस्मान्महत्कार्यमहं प्रपद्य निर्वर्तितं सर्वविदा त्वयाऽद्य ॥ कपालिनं प्रीणयितुं यतिष्ये कृतार्थमात्मानमतः करिष्ये ॥ ९ ॥ अनेन देहेन सहैव गन्तुं कैलासमीशेन समं च रन्तुम् ।। अतोषयं तीव्रतपोभिरुग्रं मृदुष्करैरब्दशतं समग्रम् ॥ १० ॥ तुष्टोऽब्रवीन्मां गिरिशः पुमर्थ मभीप्सितं प्राप्स्यसि मत्प्रियार्थम् ॥ जुहोषि चेत्सर्वविदः शिरो वा हुताशने भूमिपतेः शिरो वा ॥ ११ ॥ एतावदुक्त्वाऽन्तरधान्महेश स्तदादि तत्संग्रहणे धृताशः ।। चराम्यथापि क्षितिपो न लब्धो न सर्ववित्तत्र मयोपलब्धः ॥ १२ ॥ एवं स्तुत्याऽऽचार्यमभिमुखीकृत्य कथनीयमाह । यस्मादेवं तस्मात्सर्वविदा त्वया निष्पादितं महत्कार्यमासाय कपालिनं भैरवं मणियितुं यत्नं करिष्ये ततः कपालिपी णनादात्मानं कृतार्थं करिष्ये । उपजातिवृत्तम् ॥ ९ ॥ सर्वविदा त्वया निर्वर्तितामित्युक्तं तद्विवृणोति । अनेनेति । ‘उग्रः कपर्दी श्रीकण्ठः’ इत्यमरादुमं रुद्रम् । उपजातिवृत्तम् ।। १० ।। ४१७ ॥ ११ ॥ [ अमुं वक्ष्यमाणत्वेन बुद्धिस्थम् । तमेवार्थ स्फुटयति । अभीप्सितमि त्यादिना ] ॥ ११ ॥ तयोः सर्वज्ञाक्षितिपयो: संग्रह्णे धृताऽऽशा येन [ तदादि तदारभ्य ] ॥ १२ ॥ १ ख. 'रिशोऽमुम' । तत्र तयोर्मध्ये ॥ १२ ।।