पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । स्वमेक एवात्र निरस्तमोहः पराकृतद्वैतिवचःसमूहः ॥ आभासि दूरीकृतदेहमानः शुद्धाद्वयो योजितसर्वमानः ॥ ५ ॥ परोपकृत्यै प्रगृहीतमूर्ति रमत्र्यलोकेष्वपि गीतकीर्तिः ॥ कटाक्षलेशार्दितसज्जनार्ति सदुक्तिसंपादितविश्चपूर्तिः ॥ ६ ॥ समस्तवित्वादभिमानशून्यः । विजित्वरत्वाद्रलहस्तितान्य: परावरज्ञेषु भवादृशेषु ॥ कार्यार्थिनः काप्यनवाप्य कामं न यान्ति दुष्प्रापमपि प्रकामम् ॥ ८ ॥ [ सर्गः ११] स्वप्रयोजनासिद्धये स्तौति । अत्र लोके निरस्तमोहस्त्वमवैको यतः पराकृतो द्वैति बचसां समूहो येन स्वयं दूरीकृतदेहमानो योजित: सर्वस्मै मानो येन तथाभूतस्त्वम मानी मानद इत्युक्तः शुद्धाद्वयः परमात्मैवाऽऽभासि । पाठान्तरे शुद्धाद्वये योजिताि सर्वाणि प्रमाणानि येन स त्वमेकः सर्वोत्तमत्वेन प्रकाशस इति व्याख्येयम् ॥ ५ ॥ क्षमत्र्यलोकेष्विन्द्रादिदेवलोकेष्वपि गीता कीर्तिर्यस्य स कटाक्षलेशेनार्दिता नाशित् सञ्जनानामार्तः पीडा येन स सदुक्तिभिः संपादिता विश्धस्य पूर्वियेन । उपेन्द्रवज्र वृत्तम् ॥६॥ [सदिति । सदुक्त्या संपादिता विश्वस्य सकलमनोरथस्य पूर्तिर्येन ] || ६ विजित्वरत्वाद्विजयनशीलत्वाद्रले हस्विता इस्तेन गले गृहीता अन्ये वादिनो ये महावदान्योऽतिशयेन विश्राणनशलिः । उपजातिवृत्तम् ॥ ७ ॥ तथाचैवंविधेषु भवादृशेषु कार्यार्थिनोऽत्यन्तं दुष्प्रापमपि काममनवाप्य क कस्यांचिदप्यवस्थायां न गच्छन्ति किंतु प्राप्यैव यान्ति ॥ ८ ॥[कामं मनोरथम् ] ॥८