पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तौ संविदं वितनुतामिति संप्रहृष्टौ योगी जगाम मुदितो निलयं मनस्वी ॥ श्रीशंकरोऽपि निजधामनि जोषमास प्रोचे न किंचिदपि भावमसौ मनोगम् ॥ २९ ॥ शूली त्रिपुण्ड्री पुरतोऽवलोकी ककालमालाकृतगात्रभूषः । संरक्तनेत्रो मदघूर्णिताक्षो योगी ययौ देशिकवासभूमिम् ॥ ३० ॥ शिष्येषु शिष्टेषु विदूरगेषु स्रानादिकार्याय विविक्तभाजि ॥ श्रीदेशिकेन्द्रे तु सनन्दनाख्ठय भीत्या स्वदेहं व्यवधाय गृढे ॥ ३१ ॥ तं भैरवाकारमुदीक्ष्य देशिक स्त्यतुं शरीरं व्यधित स्वयं मनः ॥ आत्मानमात्मन्युदयुङ्ग यो जप न्समाहितात्मा करणानि संहरन् ॥ ३२ ॥ इत्येवं तौ श्रीशंकरकापालिकौ संविदं वितनुतां संभाषणं संकेतं वा कृतवन्तौ ततो योगी मनस्वी मुदितः सञ्जगाम । श्रीशंकरोऽपि निजधामनि जोषमास तूष्ण बभूव । मनोगं भावमसैौ किंचिदपि न प्रोक्तवान् ॥ २९ ॥ कंकालानां शरीरास्थां मालया कृता गात्रभूषा येन | इन्द्रवत्रा वृत्तम् ॥ ३० [ पुरत इति । पुरतोऽग्रतः कश्चिद्भाष्यकारशिष्यादिम कदाचिदवलोकयिष्यती। भीत्याऽवलोको यस्यास्तीति तथेत्यर्थः । मदेति । सुरापानमदेन घुर्णितानि भामित न्यक्षाणि ‘अथाक्षमिन्द्रिये' इत्यमरादिन्द्रियाणि यस्य सः] ।। ३० ।। श्रेष्ठषु शिष्येषु स्नानादिकार्याय विदूरगेषु सत्सु श्रीदेशिकेन्द्रे तु सनन्दनाख्य द्रीत्या देहं गूढे व्यवधाय विविक्तभाजि साति ययावित्यन्वयः ॥ ३१ ॥ तं भैरवाकारं कपालिनं वीक्ष्य श्रीशंकरः शरीरं त्यतुं स्वयं मनो व्यधात् । सम् हिदान्तः करण: प्रणवं जपन्यः करणानि संहरन्नात्मानं त्वंपदार्थमात्मनि तप्तद थेऽयुङ्ग । इन्द्रवंशा वृत्तम् ॥ ३२ । [ आत्मानं त्वंपदलक्ष्यम् । आत्मनि तत्प लक्ष्ये चिन्मात्रे । योजयन्नेकत्वेनानुसंदधत्सन्नित्यर्थः । उदयुङ्गासंप्रज्ञाताख्यनिर्विः [ सर्गः ११ ] १ क. ख. ग. जयन्स'। २ ख ग. घ. 'षु श्री'।