पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । उद्धोधितः सदसि तैरवलम्ब्य मूछ निर्गत्य राजतनुतो निजमाविवेश । गात्रं पुरोदितनयेन स देशिकेन्द्रः संज्ञामवाप्य च पुरेव समुत्थितोऽभूत् ॥ ५७ ॥ तदनु कुहरमेत्य पूर्वदृष्टं नरपतिभृत्यविसृष्टपावकेन । निजवपुरवलोक्य दह्यमानं झटिति स योगधुरंधरो विवेश ।। ५८ ।। सपाद दहनशान्तय महान्त नरमृगरुपमधोक्षजं शरण्यम् । स्तुतिभिरधिकलालसत्पदाभि स्त्वरितमतोषयदात्मवित्प्रधानः ॥ ५९ ॥ 'आर्याद्वितीयकेऽर्थे यद्रदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिते' । [ सर्गः १०] ॥ ५६ ॥ [पूरिताशानिङ्गितेनानुमोदनसूचितेनान्तःपृरितमनोरथान्पारितोषिकवि तवस्त्रविभूषणादिदानेन बहिरपि तथा ] ॥ ५६ ॥ सभायां तैः पद्मपादादिभिरुद्धोवितो मूछमवलम्ब्य पृर्वोक्तन्यायेन राजशरीरान्नि गैत्य निजं शरीरमाविवेश । स देशिकेन्द्रः संज्ञां चेतनामवाप्य च पुनरुत्थितोऽभून् ! वसन्ततिलका वृत्तम् ॥ ५७ ॥ ननु राजभृत्यविसृष्टाग्निा दह्यमानं शरीरं कथं विवेशेत्याशङ्कयाऽऽह । तस्माद्रा जतनुतो निर्गमनात्पश्चात्पूर्वदृष्टं गुहाछिद्रमेत्य नरपतिभृत्यविसृष्टपावकेन दह्यमानं निज शरीरमवलोक्य यतो योगधुरंधरोऽतो झटिति विवेश । पुष्पिताग्रा वृत्तम् ॥ ५८ ॥ [ नरेति । पद्मपादादिभिः पूर्वोक्तरीत्या स्वगमनावसरे तत्संरक्षणार्थमवस्थापितशिष्येषु दैवादसंग्रज्ञातसमामिवलम्ब्यैव मध्याहे सरस्तीरतरुच्छायादौ स्थितेषु सत्सु तत्काल मेव छिद्रमालक्ष्य राजभृत्यविनिहितवह्निनेत्यर्थः ] ॥ ५८ ॥ एवमपि दहनं शामितवानित्याकाङ्क्षायामाह । सपदि तत्क्षण आत्मवित्प्रधानः