पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । वेदानुवचनसद्दानमुखधर्म श्रद्धयाऽनुष्ठितैर्विद्यया युतैः ॥ विविदिषन्त्यत्यन्तविमलस्वान्ता ब्राह्मणा यद्रह्म तत्त्वमसि तत्त्वम् ॥ ५४ ॥ शमदमोपरमादिसाधनैधराः स्वात्मनाऽऽत्मनि यदन्विष्य कृतकृत्याः ॥ अधिगतामितसचिदानन्दरूपा न पुनरिह खिद्यन्ते तत्त्वमसि तत्त्वम् ॥ ५५ ॥ अविगीतमेवं नरपतिराकण्र्य वर्णितात्मार्थम् ॥ विससर्ज पूरिताशानेतान्निज्ञतकर्तव्यः ॥ ५६ ॥ किंच । वेदानुवचनसद्दानयज्ञतपोहितमिवमेध्याशानादिधर्मः श्रद्धयाऽनुष्ठितैर्विद्य योपासनया च युक्तैरत्यन्तनिर्मलानीन्द्रियाणि येषां ते ब्राह्मणा यद्रह्म विविदिषन्ति वेदितुमिच्छन्ति तत्तत्त्वं त्वमसि। तथाच श्रुतिः । ‘तमेतं वेदानुवचनेन ब्राह्मणा विवि दिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' । 'यद्विद्ययोपनिषदा करोति तद्वीर्यवत्तरं भव ति'। दानादेस्तत्वं तु भगवतोक्तम् । सात्त्विकत्ववेदानुवचनादेः प्रज्वलितार्धशिरस्कस्य जलराशिमवेशेच्छावदुत्कटेच्छां मति करणत्वं न तु सामान्येच्छां प्रति । अजागल स्तनायमानायास्तस्याः पूर्वमेव सिद्धत्वात् । यद्वाऽश्धेन जिगमिषतीत्यत्र गमनं प्रत्य श्धस्येव ज्ञानं पत्येव करणत्वमस्तु ॥५४॥[अत्यन्तेति । परमविमलमानसाः] ॥५४॥ किंच शमदमोपरमक्षान्तिसमाविश्रद्धालक्षणैः साधनैः स्वात्मस्वरूपेणाऽऽत्मनि बुद्धौ यदन्विष्य साक्षात्कृतं 'सत्यं ज्ञानमनन्तं ब्रह्म’ ‘विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतिबो धितमनन्तादिस्वरूपं यैस्ते कृतकृत्याः सन्तः पुनरिह संसारे जन्ममरणादिलक्षणं खेदं नाऽऽपुवन्ति तत्तत्वं त्वमसि । तथाच श्रुतिः । ‘शान्तो दान्त उपरतस्तितिक्षुः समा हित आत्मन्येवाऽऽत्मानं पश्ये' इति ‘श्रद्धवित्तो भूत्वा' इति च । यद्वैताः शिष्याणां पृथक्पृथगुक्तय इति बोध्यम् ॥ ५५ ॥ एवमविगीतमनिन्दितं वर्णितात्मवस्तु श्रुत्वा । ‘अर्थो विषयार्थनयोर्धनकारणवस्तुषु इति मेदिनी । निज्ञतं कर्तव्यं येन स नृपतिः पूरिता आशा येषां तानेताञ्शिा ष्यान्विससर्ज । १ क. 'तभे'। ३९३ २ क. कोशः ।