पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पुरव भोगान्बुभुजे महीभृ त्स भोगिनीभिः सहितोऽप्यरंस्त ॥ कंदर्पशास्त्रानुगत: प्रवीणै र्वात्स्यायने तच निरैक्षताद्धा ॥ १७ ॥ वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च निरीक्ष्य सम्यक् ॥ स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥ १८ ॥ पादे गुल्फे तथोरौ च भगे नाभौ कुचे हृदि । कक्षे कण्ठे तथैौष्ठ च गण्डे नेत्रे श्रतावपि । ललाटे च शिरोदेशे वसेत्कामस्तिथिक्रमात् । दक्षे पुंसः स्त्रिया वामं शुछ कृष्णे विपर्ययः इत्युक्तप्रकारेण मनसिजस्य कामस्य कलास्चभिज्ञो मनोज्ञ विचेष्टितं यस्य सकल विषयेषु व्यापारयुक्तानीन्द्रियाणि यस्य सदाऽनुसृताः प्रमदोत्तमा येन कृता या कुच लक्षणगुरूपासना तयाऽत्यन्तं मुनिर्तृतमन्तःकरणं यस्य स निरर्गलं निराबाधं निधुवनं मैथुनम् । “मैथुनं निधुवनं रतम्' इत्यमरः । तत्र वरो यो ब्रह्मानन्दस्तमनुभूतवान् । हरण वृत्तम् ॥ १६ ॥ [ सकलेति । विशेषेण तत्तत्कालावच्छदेनाऽऽसमन्ता त्तत्तद्देशावच्छेदेन वृत्तं शास्त्राद्यविरुद्धस्चाभाव्यं येषां तानि तथा सकलविपयेषु संपू र्णविहितेष्टशब्दादिषु व्यावृत्तानि सर्वदेशकालसदृत्तान्यक्षाणीन्द्रियाणि यस्य स तथेत्यर्थः] ॥ १६ ॥ स महीभृत्पुरेव भोगिनीभिः प्रमदाभिः सहितो भोगान्बुभुजे । वात्स्यायने प्रवीणैः सहितश्च कामशास्त्रानुगतोऽरंस्त तच कंदर्पशास्त्रं स्वयं साक्षादृष्टवान् । उपजाति वृत्तम् ॥ १७ ॥ तदृष्टा निबन्धमेकं चकारेत्याह । वात्स्यायनेन प्रेोदितम् । त्रिवर्गप्रतिपत्तिः । विद्यासमुद्देशः । नागरिकं वृत्तम् । नायकसहायदूतीकर्मविमर्शः । प्रमाणकालभावेभ्यो रत्यवस्थापनम् । प्रतिविशेषाः । आलिङ्गनविचाराः । चुम्बनविकल्पाः । नखरदशा नजातयः । दशनच्छेद्यविधयः । देश्या उपचाराः । संवेशनप्रकाराः । चित्ररतानि । प्रहरणनयोगाः । तद्युक्ताश्च सीत्कृतोपक्रमाः । पुरुषायितम् । पुरुषोपसृत्यानि । १ घ. 'स्य सदाऽऽ।

  • *

३७९