पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८० श्रीमच्छकरदिग्विजयः । पाराशर्यवनिभृति प्रविश्य राज्ञो वणैर्मेवं विहरति तद्विलासिनीभिः ॥ दृष्टा तत्समयमतीतमस्य शिष्या रक्षन्तो वपुरितरेतरं जल्पुः ।। १९ ॥ आचायैरर्वाधिरकारि मासमात्रं सोऽतीतः पुनरपि पञ्चशाश्व घस्राः । अद्यापि स्वकरणमेत्य नः सनाथा न्कर्तु तन्मनसि न जायतेऽनुकम्पा ॥ २० ॥ किं कुर्मः क नु मृगयामहे व यामः को जानन्निह वसतौति नोऽभिदध्यात् । विज्ञातुं कथमिमीश्महे विचिन्त्या प्यासिन्धु क्षितितलमन्यगात्रगृढम् ॥ २१ ॥ [ सर्गः १० ] औपरिष्टकं रतारम्भावसानिकम् । रतविशेषाः । प्रणयकलहः । इत्यादिसमासव्यासा त्मकं सूत्रजातं तदीयं भाष्यं च सम्यड़निरीक्ष्याभिनवार्थगर्भमेकं निबन्धममरकारूय नृपवेषधारी व्यधत्तेत्यर्थः ।। १८ ।। एवं राजदेहमवेशानन्तरं कृतं तदीयं चरितं निरूप्य तच्छिष्यचरितं वर्णयितुमुपक्र मते। पराशरेण प्रोक्तं भिक्षुसूत्रमधीत इति पाराशरी यतिः । ‘पाराशर्यपि मस्करी' इत्य मरः । तेषामवनिभृतेि राज्ञि श्रीशंकरे राज्ञः शरीरं प्रविश्यैवं तद्विलासिनीभिर्विहरति सति तस्याऽऽगमनकालं तत्संकेतं मासमात्रं वा व्यतिक्रान्तं दृष्ट्राऽस्य शिष्याः शारीरं रक्षन्तः परस्परं जल्पुः । प्रहर्षणी वृत्तम् ॥ १९ ॥ तज्जल्पनमुदाहरति । आचार्यमसमात्रमवधिः कृतः सोऽततः पुनरपि पश्च षड़वा दिनानि व्यतीतान्यद्यापि स्वशरीरं प्रविश्यास्मान्सनाथान्कर्तु तस्य मनसि करुणा न जायत ।। २० ।। तस्मात्कं कुर्मः क गच्छामः । ननु काचिद्रत्वा कश्चन प्रष्टव्य इत्याशङ्कयाऽऽहुः । जानन्सन्निह वसतीति नोऽस्मभ्यं कोऽभिदध्यात् । ननु समुद्रपर्यन्तं क्षितितलम न्विष्य स्वयमेवविज्ञेय इति तत्राऽऽछु । असिन्धु भूमितलं विचिन्त्यान्विष्यापीमं गुरुं विज्ञातुं किं समर्था भवामो यतोऽन्यशरीरे गूढम् ॥ २१ ॥