पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ श्रीमच्छंकरदिग्विजयः । विवृतजघनं संदष्टोष्ठं प्रणुन्नपयोधरं प्रसृतभणितं प्राप्तोत्साहं रणन्मणिमेस्वलम् ॥ निभृतकरणं नृत्यद्भात्रं गतेतरभावनं प्रसृमरसुस्वं प्रादुर्भूतं किमप्यपदं गिराम् ॥ १५ ॥ मनसिजकलातत्वाभिज्ञो मनोज्ञविचेष्टित सकलविषयव्यावृत्ताक्षः सदानुसृतोत्तमः । कृतकुचगुरुपास्त्याऽऽत्यन्तं मुनिर्तृतमानसो निधुवनवरब्रह्मानन्दं निरर्गलमन्वभृत् ॥ १६ ॥ माश्वं सीत्काराढ्यं कमलस्य सौरभवत्सौरभं यस्य विसृत्वरः प्रसरणशालो मन्मथो यत्रै वंविधं कान्तामुखं निपीय नृपः कृतकृत्योऽभूत् ॥ १४॥ [ प्रचलदिति । प्रकर्षण चलन्तश्चञ्चला अलकाः 'अलकाश्धूर्णकुन्तलाः' इत्यमरात्सौगन्ध्याधायकपटवासादिचू णविशेषसंस्कृतकेशा यस्य तत्तथेत्यर्थः । *प्रचरदिति पाठेऽपि रलयोः सावण्यदयमे वार्थः ] ॥ १४ ॥ विवृते आवरणरहिते जघने यस्मिन् । संदष्टोऽवरोष्ठो यस्मिन् । प्रणुत्रैौ प्रकर्षण पीडितौ स्तनौ यस्मिन् । प्रसृतं भणितं रतिकृजितं यस्मिन् ! प्राप्त उत्साहो यस्मिन् । रणन्ती मणिमेखला यस्मिन् । निभृतमासादितं करणं क्रियाभेदः संवेशनं वा यस्मिन्। ‘करणं हेतुकर्मणोः । क्रियाभेदेन्द्रियक्षेत्रकायसंवेशानेषु च' इति मेदिनी । नृत्यन्ति गात्राणि यास्मिन्गतेतरस्य भावना यस्मात्तथाभूतं वाचाम गम्यं किमप्यतिशायितं सुखं प्रादुर्भूतमित्यर्थः ॥ १५ ॥ तत्रापि ब्रह्मानन्दमेवान्वभूदित्याह । मनसिजेति ।

  • श्रद्वा प्रीतो रतिश्चैव धृतिः कीर्तिर्मनोभवा ।

विमला मोदिनी घोरा मदनोत्पादिनी मदा । मोहिनी दीपनी चैव ज्ञेया वशकरी तथा । रञ्जनी चैव मदना कलाः त्र्यङ्गेषु सर्वशः ।

  • आदर्शपुस्तकेषु त्वयमेवोपलभ्यते ।

[ सर्गः १० ] १ क. "क्षिणाङ्गं स'। २ ग. ' णांसं स'।