पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । इति नृपत्वमुपेत्य वसुंधरा मवति संयमिभूभृति मत्रिणः ॥ तमधिकृत्य परं कृतसंशया इति जल्पुरनल्पधियो मिथः ॥ ३ ॥ मृतिमुपेत्य यथा पुनरुत्थित प्रकृतिभाग्यवशेन तथा त्वयम् । नरपातः प्रातभात न पृवव त्समुदिताखिलदिव्यगुणोदयः ॥ ४ ॥ वसु ददाति ययातिवदर्थिने वदति गीष्पतिवद्विरमर्थवित् । जयति फाल्गुनवत्प्रतिपार्थिवा न्सकलमप्यवगच्छति शर्ववत् ॥ ५ ॥ अनुसवनविसृत्वरैरपूर्व वैितरणपौरुषशौर्यधैर्यपूर्वेः ॥ अनितरमुलभैर्गुणैर्विभाति क्षितिपतिरेष परः पुमानिवाऽऽद्यः ॥ ६ ॥ ३७५ इत्येवं नृपत्वं प्राप्य यतिराजे श्रीशंकरे भूमिमवति सति तं परमाविकृत्य तास्मि न्परास्मन्ननल्पबुद्धयो मश्रिणः कृतसंशथाः सन्तः परस्परमूचुः ॥ ३ ॥ जल्पनमेवोदाहरति । मृतिमुपेत्य प्रजाभाग्यवशेन यथा पुनरुत्थितस्तथैव पकृति भाग्यवशेनैवायं न पूर्ववत्पतिभाति किंतु समुदितानामारंखलानां दिव्यगुणानामुदयो यस्मिस्तथाभूतः प्रतिभातीत्यर्थः ॥ ४ ॥ [ प्रकृतीति । प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गे' इति मेदिनी ] ॥ ४ ॥ गुणानेवोपवर्णयन्ति । अर्थिने ययातिवद्धनं ददाति तथाऽयमर्थविद्वाचस्प तवाद्ररं वदति प्रतिराज्ञोऽर्जुनवजयति सर्वमपि महादेवजानाति ॥ ५ ॥ [ प्रतिपार्थिवान्प्र तिकूलवृपतीन् ] ॥ ५ ॥ अनुसवनं सर्वदा विसरणशीलैरपूर्वेदतृत्वादिभिर्नान्यस्मिन्सुलमैर्गुणैरेष भूमिपति राद्यः परः पुमान्परमात्मेव विभाति । पुष्पिताग्रा वृत्तम् ॥६॥ [वितरणेति । वित रणं दानं पौरुषं पराक्रमः शैौर्य शास्त्रविद्यानैपुण्यपूर्णत्वं धैर्य महासंकटेऽप्यस्खलित विवेकत्वमेतत्पूर्वरेतत्प्रमुखैरिति यावत् ] ॥ ६ ॥