पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ श्रीमच्छंकरिदिग्वजयः। इति श्रीमाधवीपे तत्सार्वज्ञयोपायगोचरः ॥ संक्षेपशंकरजये सर्गेऽयं नवमोऽभवत् ॥ ९ ॥ अथ दशमः सगः ॥ अथ पुरोहितमत्रिपुरः सरै र्नरपति: कृतशान्तिककर्मभिः ॥ विहितमाङ्गलिकः स यथोचितं नगरमास्थितभद्रगजो ययौ ।। १ ।। समधिगम्य पुरं परिसान्त्वित प्रियजनः सचिवैः सह संमतैः ।। नृपतिभिर्दिवमिन्द्र इवाधिराट् ॥ २ ॥ [ इति श्रीति । तदिति । तस्य श्रीमच्छंकरभगवत्पादस्य यत्सार्वज्यं तस्य य उपायः स गोचरो विषयो यस्य स तथेत्यर्थः । अपरं तु प्राग्वदेव ] ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतर्थिश्रीपादशिष्यदत्त वंशावतंसरामकुमारसूनुवनपतिसूरिकृते श्रीशंकराचार्यविजयडि ण्डिमे नवमः सर्गः ॥ ९ ॥ [सर्गः १०] अथ दशमसगस्य टीका । एवं सार्वज्ञोपायं सप्रपञ्चं निरूप्य कामकलातत्त्वं सपरिकरं प्रपञ्चयितुमारभते । अथा नन्तरं कृतशान्तिककर्मभिः पुरोहितादिभिर्यथेोचितं विहितमाङ्गलिक आस्थितो मङ्ग लगजो येन स नरपतिर्नगरं ययौं । द्रुतविलम्बितं वृत्तम् ॥ १ ॥ [ कृतेति । संपा दितपुनर्जीवाविर्भावपयुक्तशान्तिकक्रियाविशेपैरिति यावत् । यद्वा । कृतानि यान शान्तिकर्माणि तैरिति करण एव तृतीया ।विहितेति । कृतमाङ्गलिकाचारः] ।। १ । पुरं समधिगम्य परिसान्त्वितः पियजनो येन नृपतिभिरादृतं शासनं यस्य सोऽ विराट्संमतैः सचिवैः सह दिवमिन्द्र इव भुवमपालयत् ॥ २ ॥ [ अधीति । अविवे सकलकल्याणगुणनिलयत्वेन लोकोत्तरं राजते शोभत इति तथेत्यर्थः ] ॥ २ ॥ १ ग. 'र्वज्ञोपा'।