पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । अऋतुषु तरवः सुपुष्पिताग्रा बहुतरदुग्धदुघाश्च गोमहिष्यः । क्षितिरभिमतवृष्टिराढयसस्या स्वविहितधर्मरताः प्रजाश्च सर्वाः ॥ ७ ॥ कालस्तिष्यः सर्वदोषाकरोऽपि त्रेतामत्येत्यद्य राज्ञः प्रभावात् ।। तस्मादस्मद्राजवष्मं प्रविश्य मासैश्वर्यः शास्ति कश्चिद्धरित्रीम् ॥ ८ ॥ तदयं गुणवारिधिर्यथा प्रतिपद्येत न पूर्वकं वपुः ॥ करवाम तथेति निश्चयं कृतवन्तः सचिवाः परस्परम् ॥ ९ ॥ अथ ते भुवि यस्य कस्यचि द्विगतासोर्वपुरस्ति देहिनः ॥ अविचार्य तदाश्रु दह्यता मिति भृत्यान्रहसि न्ययोजयन् ॥ १० ॥ [ सर्गः १० ] किंच वृक्षा अभन्नृतुषु सुपुष्पिताग्रा गोमहिष्यश्च बहुतरदुग्धदुघाः क्षितिश्चाभिमता वृष्टिर्यस्यां साऽऽदयसस्या प्रजाश्च सर्वाः स्वविहितधर्मरताः ॥ ७ ॥ [अन्वृतुष्विति । यद्यप्यकाले कुसुमोद्रमो हि दुर्निमित्तमेव तथाऽप्यत्रावृतुष्वपि स्वर्तुभिन्नकालेष्वपि सामान्यतः सर्वेऽपि तरवः सुपुष्पिताग्रा एवेति व्याख्येयम् ] || ७ ।। किं बहुनाऽद्य राज्ञः प्रभावात्सर्वदोषाकरोपि कलिकालखेतामतिक्रामति तत उत्कृष्ट भवति । तस्मात्प्राप्रैश्चर्यः कश्चिदस्मद्राज्ञः शरीरं प्रविश्य पृथिवीं शास्ति । शालिन वृत्तम् ॥ ८ ॥ [*विष्यो नक्षत्रभेदे स्यात्कलैो धान्यां च योषिति' इति मेदिनी] ॥ ८ ॥ तत्तस्मादयं गुणसमुद्रो यथा पृर्वं शरीरं न प्रामुयात्तथा करवामेत्येवं साचिवाः पर स्परं निश्चयं कृतवन्तः । वियोगिनी वृत्तम् ॥ ९ ॥ अथैवं निश्चयकरणानन्तरं यस्य कस्यचिन्मृतकस्य देहिनः शरीरं भूमावस्ति तदि चार्याऽऽशु दह्यतामित्येवं भृत्यानेकान्त न्ययोजयन् ॥ १० ॥