पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० श्रीमच्छकरदिग्विजपः । तदयं करोतु हयमेधशता न्यमितानि विप्रहननान्यथवा ॥ परमार्थविन्न सुकृतैर्दूरितै रपि लिप्यतेऽस्तमितकर्तृतया ॥ ९६ ॥ अवधीचिशीर्षमददाच यती न्वृकमण्डलाय कुपितः शतशः ।। बत लोमहानिरपि तेन कृता न शतक्रतोरिति हि बहूवृचवर्गीः ॥ ९७ ॥ बहुदक्षिणैरयजत क्रतुभि विबुधानतर्पयदसंख्यधनैः ॥ न तु देहयोगमिति काण्ववचः ॥ ९८ ॥ [ सर्गः ९] तत्तस्माद्यमश्वमेधशतानि करोत्वथवाऽसंख्यातानि विपहननानि करोतु तथाऽपि परमार्थवित्सुकृतैर्दूरितैश्च न लिप्यते लेपकारणस्य कर्तृत्वस्य निवृत्तत्वादिति हेतुमाह। अस्तंगतकर्तृतयेति ॥ ९६ ॥ [ अस्तमितेति । नष्टकर्तृत्वाध्यासतयेति यावत् । तदुक्तं परमार्थसारे पतञ्जलिना । ‘हयमेधसहस्राण्यप्यथ कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्नच पापैर्लिप्यते कापि’ इति ] ॥ ९६ ॥ अयममितानि ब्रह्मइननानि वा करोतु तथाऽपि दुरितैर्न लिप्यत इत्युक्तं तत्र प्रमाणाकाङ्क्षायां “त्रिशीर्षाणं त्वाष्ट्रमहन्नरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छसस्य मे तत्र लोमापि न मीयते स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको भीयते न स्तेयेन न भ्रूणहत्यया' इति श्रुतिमर्थतः पठति । विशिरसं त्वष्टपुत्रं विश्वरूपमिन्द्रोऽ वधीतथा रौति यथार्थ शब्दयतीति रुद्वेदान्तवाक्यं तद्येषां मुखे नास्तीति तानरु न्मुखाञ्शतशो यतीञ्शालावृकसमूहाय कुपितः सन्नदात्तथाऽपि शतक्रतोरिन्द्रस्य तेन कर्मणा लोमहानिरपि नैव कृतेत्यूग्वेदिनां वागित्यर्थः ॥ ९७ ॥ इयमेधशतानि करोतु तथाऽपि सुकृतैर्न लिप्यत इत्यत्रापि प्रमाणमाह । जनको बहुदक्षिणैः क्रतुभिर्देवानयजत तथाऽसंख्यधनैरतर्पयत्तथाऽपि केवलं सर्वभयशून्यं परमानन्दस्वरूपं मोक्ष पाप न तु तत्फलभोगाय देहसंबन्धमापेवि काण्वानां वचनम् । तथाच श्रुतिः ‘जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे' ‘अभयं वै जनक माधो सि' इत्याद्या ॥ ९८ ॥