पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९] धनपतिरिकृतडिण्डिमाख्ठयटीकासंवलितः । न विहीयतेऽहिरिपुवडुरितै र्न च वर्धते जनकवत्सुकृतैः ॥ न स तापमेत्यकरवं दुरितं किमहं न साध्वकरवं त्विति च ॥ ९९ ॥ तदनङ्गशाव्रपरिशीलनम प्यमुनैव सौम्य करणेन कृतम् । न हि दोषकृत्तदपि शिष्टसर ण्यवनार्थमन्यवपुरेत्य यते ॥ १०० ॥ इति सत्कथाः स कथनीयशा भवभीतिभञ्जनकरीः कथयन् ।। सुदुरासदं चरणचारिजनै गिरिशृङ्गमेत्य पुनरेव जगौ ॥ १ ॥ अथ साऽनुपश्यत विभाति गुहा पुरतः शिला समतला विपुला । सरसी च तत्परिसरेऽच्छजला फलितमाह । तथाच तत्त्वविदृत्ररिपुरिन्द्रस्तद्वडुरितैर्न हीयते तथा जनकवत्सु कृतैश्च न वर्धते किंच स तत्त्वविदहं दुरितं किमर्थमकरवं साधु कर्म च किमर्थ नाकरवीमति तापमपि न प्राम्रोतीत्यर्थः । तथाच श्रुतिः ‘तत्सुकृतदुष्कृते विधुनुत एनं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्’ इत्याद्या ।। ९९ ॥ तत्तस्माद्यद्यपि कामशास्त्रपरिशीलनं 'हे सौम्यानेनैव करणेन वपुषा कृतमपि म च दोषकृत्तथाऽपि शिष्टसरणीपरिपालनार्थमन्यशरीरं प्राप्य यत्नं करोमि ॥ १०० ।। ३७१ इत्येवं भवभयभञ्जनकरीः सत्कथाः कथयन्कथनीयं यशो यस्य स चरणचारिजनै रातेदुष्प्रापमद्रिशृङ्गं प्राप्याथ गिरिशृङ्गप्राप्यनन्तरं स श्रीशंकरो भूयोऽप्युवाच ॥ १ ॥ यदुवाच तदुदाहरति । गुहायाः पुरतः समं तलं यस्याः सा विपुला शिला विभाति तथा तस्या गुहायाः परिसरे प्रान्तभूमौ स्वच्छजला पुनश्च फलानां भारेण नत्रैवृक्षे रम्यं तटं यस्याः सा सरसी विभाति हे विनेया अनुपश्यत ॥ २ ॥ १ ख. सोम्य । २ ख. ग. "हे सोम्या'।