[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलित * ॥ कृतधीस्त्वनाश्रममवर्णमजा त्यवबोधमात्रमजमेकरसम् । स्वतयाऽवगत्य न भजेन्निवस न्निगमस्य मू िविधिकिंकरताम् ॥ ९३ ॥ कलशादि मृत्प्रभवमस्ति यथा मृदमन्तरा न जगदेवमिदम् ॥ परमात्मजन्यमपि तेन विना समयत्रयेऽपि न समस्ति खलु ॥ ९४ ॥ कथमज्यते जगदशेषमिदं कलयन्मृषेति हृदि कर्मफलैः । न फलाय हि स्वपनकालकृतं मुकृतादि जात्वऋतबुद्धिहतम् ॥ ९५ ॥ एवमज्ञस्याविकारिणः सत्वाद्विधप्रांतषेधशास्त्रसाफल्यमुक्त्वा तत्वविदोऽधिका राभावमाह । कृता संपादिता महावाक्यजन्या धीर्येन स त्वाश्रमादिविनिर्मुक्तमात्मा नमात्मत्वेनावगत्य वेदान्तमतिपाद्य स्वरूपत्वान्निगमस्य मू िवसन्विधिकिंकरतां न भैजेत् । विधिग्रहणं प्रतिषेधस्याप्युपलक्षणम् ।। ९३ ।॥ [भवर्ण ब्राह्मणादिवर्णशून्यम्। अजाति मनुष्यत्वादिजातिविधुरम् ] ॥ ९३ ।। ननु “अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्त क्षीयते कर्म कल्पकोटिशतैरपि। इत्यादिवचनैः कर्मफलभोगस्याऽऽवश्यकत्वावगमात्कथं तेन तत्वविदोऽसंबन्ध इत्याशङ्कय ‘वाचाऽऽरम्भणं विकारो नामवेयं मृत्तिकेत्येव सत्यम्’ इति श्रुत्युक्तदृष्टा न्तेन कालत्रयेऽप्यात्मव्यतिरिक्तस्य प्रपञ्चस्याभावविचारणेन तस्य मृषात्वनिश्चयादि त्याह । घटाधं मृत्प्रभवं वस्तु यथा मृदं विना नास्ति तथा परमात्मजन्यमिदं जगदपि परमात्मानं विना कालत्रयेऽपि नास्ति । ‘तदनन्यत्वमारम्भणशब्दादिभ्यः' इति न्यायात् । कल्पितस्याधिष्ठानानतिरिक्तत्वं प्रसिद्धमिति खल्वथैः ।। ९४ ॥ तथाचैवंप्रकारेणेदं सर्वे जगन्मिथ्येति हृद्यनुसंदधानः कर्मफलैर्न केनापि प्रकारेण लिप्यते हि यस्मात्स्वप्रकालकृतं सुकृतं दुष्कृतं च मृषा बुद्धिहतत्वात्कदाचिदपि फलाय न भवति ॥ ९५ ।। ३६९ १ ख. ग. घ. मूर्धनि । २ क. ख. घ. भजेत ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६७
दिखावट