पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । अन्यादृशानामदसीयनाना कुशेशयाक्षीकिलकिंचितानाम् ॥ सर्वज्ञतानिर्हरणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥ ७८ ॥ इत्यूचवांसं यतितलुजं तं सनन्दनः प्राह ससान्त्वमेनम् ।। सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥ ७२ ॥ मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै । नृपस्य कस्यापि तर्नु परासोः प्रविश्य तत्पत्तनमाससाद ॥ ८० ॥ भद्रासनाध्यासिनि योगिवये भद्राण्यनिद्राण्यभवन्प्रजानाम् । ववर्ष कालेषु बलाहकोऽपि सस्यानि चाऽऽशास्यफलान्यभूवन् ॥ ८१ ॥ ३६५ सर्वज्ञतानिर्हरणाय सर्वज्ञत्वनिर्वाहायामुष्य राज्ञ इमा अद्सीया नानाऽनेकविधाः कुशेशयाक्ष्यः दकमलाक्ष्यस्तासां यानि किलकिंचितानि रोषाश्रुहर्षभीत्यादेः संकरः किल किंचितमित्युक्तानि तेषामन्यादृशानामतिविलक्षणानां साक्षित्वं साक्षाद्रष्टत्वमप्याश्र यितुं सोऽहं समीहे ॥ ७८ ॥ [ स पूर्वं सरस्वत्या कृतप्रश्रः ] ॥ ७८ ॥ इत्युक्तवन्तं यतिश्रेष्ठं तमेनं श्रीशंकरं ससान्त्वं यथा स्यात्तथा प्रोवाच हे सर्वज्ञ सर्वविदस्तव यद्यपि किंचिदप्यज्ञातं नास्ति तथाऽपि तव भक्तिम मुखरं वाचालं करोति ॥ ७९ ॥ [ 'अत्यर्थमधुरं सान्त्वम्' इत्यमरः] ।। ७९ ॥ एवं पुरावृत्तं वृत्तान्तं श्रावयितुमभिमुखीकृत्य तं श्रावयतेि । हि मसिद्धं पुरा मत्स्येन्द्रनामा महात्मा स्वशरीररक्षणाय गोरक्षसंज्ञ शिाष्यमाज्ञाप्य कस्यचिन्मृतकस्य राज्ञः शारीरं प्रविश्य तस्यै नेगरं प्राप्तवान् ॥ ८० ॥ योगिश्रेष्ठ तस्मिन्भद्रासनाध्यासिनि नृपासनमुपविटे सति प्रजानां भद्राणि निद्राव र्जितान्यभवन्नभ्रमपि कालेषु ववर्ष सस्यानि चेच्छानुसारिफलान्यभूवन् ॥ ८१ ॥

  • ख. 'त्पट्टन'। २ क. 'क्तिरस्मन्मुखं कथनाय मु। ख.'क्तिरस्मन्मुखं कथनाय विस्तारयति ।

३ ख. ग. घ. 'वृत्तवृ'। ४ घ. ‘स्य राजन'। ५ ख. ग. राज्यं ।