पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्ट कमपीह दिव्यम् ॥ समादिशवाजसरोरुहाक्षी सर्वात्मना तस्य वशीक्रियायै ॥ ८२ ॥ संगीतलास्याभिनयादिमेषु संसक्तचेता ललितेषु तासाम् । स एष विस्मृत्य मुनिः समाधिं सर्वात्मना प्राकृतवद्धभूव ॥ ८३ ॥ गोरक्ष एषोऽथ गुरोः प्रवृत्तिं विज्ञाय रक्षन्बहुधाऽस्य देहम् ॥ निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ।। ८४ ॥ तत्रैकदा तत्त्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ॥ योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहं ॥ ८५ ॥ इहास्मिनृपस्य काये प्रविष्टं कमपि दिव्यं विज्ञाः सचिवा विज्ञाय राज्ञः कम लाक्षीः सर्वभावेन तस्य वशीकरणाथै समादिशन् ॥ ८२ ।। एवं संमेरितानां तासां ललितेषु संगीतवृत्याभिनयाद्येषु सत्तं चित्तं यस्थ स एष मुनिः समाधिं विस्मृत्य सर्वात्मभावेन प्राकृतवद्वभूव ।। ८३ ॥ [ संगीतेति । ‘लास्यं नृत्यं च नर्तने' इति ‘व्यञ्जकाभिनयौ समौ' इति चामरः । 'अनाचार्योपदिष्टं स्याललितं रतिचेष्टितम्’ इत्यभियुक्ताः ] ॥ ८३ ॥ [ सर्गः ९] अथानन्तरमेष गोरक्षो गुरोः प्रवृत्ति विज्ञाय बहुपकारेणास्य गुरोर्देहं रक्षन्सन्निशा न्तस्यान्तःपुरस्य कान्तानां नर्तनोपदेष्टा सन्नस्य गुरोरन्तमन्तरङ्गेो बभूव ॥ ८४ ॥ तत्र तस्मिन्देश एकस्मिन्काले तत्त्वनिबोधनेन निवृत्तरागं निजगुरुं स गोरक्षो योगानुपूर्वीमुपदिश्य यथापूर्वं प्राक्तनमेव देहं निन्ये ॥ ८५ ॥ १ क. 'दिकेषु । २ ख. ग. घ. 'ङ्गोऽभवत् । ॥ ८४ ॥