श्रीमच्छंकरदिग्विजयः । स ददर्श कुत्रचिदमत्र्यमिव त्रिदिवच्युतं विगतसत्वमपि ॥ मनुजेश्वरं परिवृतं प्रलप त्प्रमदाभिरार्तिमदमात्यजनम् ॥ ७४ ॥ अथो निशाखेटवशाद्टव्यां मूले तरोर्मोहवशात्परामुम् ॥ तं वीक्ष्य मार्गेऽमरकं नृपालं सनन्दनं प्राह स संयमीन्द्रः ॥ ७५ ॥ सौन्दर्यसौभाग्यनिकेतसीमा पर:शाता यस्य पयोरुहाक्ष्य: ॥ स एष राजाऽमरकाभिधान शेते गतामुः श्रमतो धरण्याम् ॥ ७६ ॥ प्रविश्य कायं तमिमं परासो यागानुभावात्पुनरप्युपतु मुत्कण्ठते मानसमस्मदीयम् ॥ ७७ ॥ [ सर्गः ९] स कस्मिंश्चिद्देशे विगतजीवमपि स्वर्गत्पतितं देवमिव प्रलपन्तीभिः प्रमदाभिः परि वृतमार्तिमानमात्यजनो यस्य तं नरेश्वरं ददर्श ॥ ७४ ।। अथो निशायां रात्रौ मृगयावशात् । 'आखेटो मृगया स्त्रियाम्' इत्यमरः । अटव्यां वने वृक्षस्य मूले मोहो मूर्छनं तद्वशात्परासुमुत्क्रान्तप्राणं तममरकसंज्ञतं राजानं वाक्षय स संयमीन्द्रः सनन्दनं पझपादं प्रोवाच उपजातिवृत्तम् ॥ ७५ ॥ [ अमरुकं न विद्यते मरुर्निर्जलदेशो यस्य राष्ट्र इति तथा तमित्यर्थः । डिण्डिमकारादृतेऽमरकमिति पाठे त्वमरेभ्योऽमरवद्वा कं सुखं यस्य तमिति व्याख्येयम् । तथाऽपि प्रायः शिष्ट सांप्रदायिक: प्राथमिक एव पाठः सर्वत्र दृश्यते ] ॥ ७५ ॥ यस्य सौन्दर्यसैौभाग्यनिकेतसीमाः परःशताः शतादधिकाः कमलनयनाः स एषोऽ मरकसंज्ञो राजा श्रमतो गतप्राणो भूमौ शेते ॥ ७६ ॥ [ सौन्दर्य सर्वावयवसौष्ठवम् । सैौभाग्यं तारुण्यम् । व्युत्पत्तिपक्षेण तस्यैव लाभात् । तयोय निकेतनं निकेतः ‘केतनं तु निमश्रणे । गृहे केतैौ च कृत्ये' इति मेदिन्या गृहं तस्य सीमाः 'समसीमे स्त्रियाः मुभे' इत्यमरान्मर्यादीभृता इत्यर्थः ] ॥ ७६ ॥ परासार्श्वपस्य तमिमं देहं प्रविश्य राज्येऽस्य पुत्रं निवेश्य योगप्रभावात्पुनरप्युपा गन्तुमस्मदीयं मन उत्कण्ठते ॥ ७७ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६२
दिखावट