पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । नेतीरितः किंचिदुवाच शंकरो विचिन्तयन्नत्र चिरं विचक्षणः ॥ तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षयः ॥ ७० ॥ इति संविचिन्त्य स त्दृदाऽऽथु तदाऽ नवबुद्धपुष्पशरशास्र इव ॥ विदितागमेोऽपिं सुरिरक्षयिषु र्नियमं जगाद जगति व्रतिनाम् ॥ ७१ ॥ इह मासमात्रमवधिः क्रियता मनुमन्यते हि दिवसस्य गणः । तदनन्तरं मुदति हास्यसि भोः कुमुमास्रशास्त्रनिपुणत्वमपि ॥ ७२ ॥ उररीकृते सति तथेति तयाऽऽ क्रमते स्म योगिमृगराङ्गगनम् ॥ श्रुतविग्रहः श्रुतवनेययुतो दधदभ्रचारमथ योगदृशा ।। ७३ ।। ३६३ इतीरितोऽस्मिन्नर्थे विचिन्तयन्विचक्षणः श्रीशंकरः किंचिदपि नोवाच । विचि न्तनमाह । तासां कलानामकथने ममाल्पज्ञता भविष्यति तासां कथने तु मम यतेर्ध मस्य सक्षयः ॥ ७० ।। इत्येवं स शत्रं मनसा संचिन्त्य विदितकामागमोऽपि जगति व्रतिनां कामशास्त्रा नभ्यासादित्रतवतां परमहंसपरिव्राजकानां नियमं रक्षयितुमिच्छुस्तास्मिन्कालेऽनवबुद्ध कामशास्त्र इव संञ्जगाद ॥ ७१ ॥ यदुवाच तदाह । इहास्मिन्कलादिसंकथने माममात्रमवधिः क्रियतां हि यस्मा दिवसस्य गणो वादिभिरनुमन्यते तथाच मापानन्तरं भोः सुदति कामशास्त्रनिपुणत्व मपि त्यक्ष्यसि ॥७२॥ [मापमात्रं मास एव मासमात्रमेकमासपर्यन्तमित्यर्थः] ॥७२॥ तथेति तया सरस्वत्या स्वीकृते सति योगिरराटश्रीशंकर आकाशमाक्रमते स्माथा नन्तरं श्रुतो विग्रहः स्वरूपं यस्य स प्रख्यातविग्रहस्तथा श्रुतवैिनेयैः शिष्यैर्युतः स योगदृष्टयाऽभ्रचारमाकाशगमनं दधत् ॥ ७३ ॥ [ योगदृशा योगावलम्बनेन । दधत्कुर्वन्सन्नित्यर्थः ] ॥ ७३ ॥ १ ग. घ. 'पि स रि"। २ ग. 'तोऽत्रास्मि । ३ ख. 'मिच्छंस्त'। ४ घ. स जगा।