पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । अथ शारदाऽकृतकवाकममुस्व ष्वस्विलेषु शास्रनिचपेषु परम् । तमजयमात्मनि विचिन्त्य मुनिं पुनरप्यचिन्तयदिदं तरसा ॥ ६६ ।। अतिबाल्य एव कृतसंन्यसनो नियमैः परैरविधुरश्च सदा। मदनागमेष्वकृतबुद्धिरसी तदनेन संप्रति जयेयमहम् ॥ ६७ ॥ इति संप्रधार्य पुनरप्यमुना कथने प्रसङ्गमथ संगतितः ।। यमिनं सदस्यमुमपृच्छदसों कुमुमास्रशास्वहृदयं विदुषी ॥ ६८ ॥ कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः ।। पूर्वे च पक्षे कथमन्यथा स्थिति कथं युवत्यां कथमेव पूरुषे ॥ ६९ ॥ [ सर्गः ९ ] अथ शारदाऽकृतकवाक्प्रमुखेष्वनादिसिद्ववेदवाक्प्रभृतिष्वखिलेषु शास्रसमूहेषु तं परं मुनेिं जेतुमशक्यमात्मनि विचिन्त्य पुनरपदं वक्ष्यमाणं झटित्यचिन्तयत् ॥६६ ।। यदचिन्तयत्तद्दर्शयति । आतिबाल्य एव कृतं संन्यसनं येन नियमैः परैरविधुरोऽ विकलश्च सदा कदाऽपि नियमविनिर्मुक्तो न भवतीत्यर्थः । अतः कामागमेप्वयमकृत बुद्धिस्तत्तस्मादनेन मदनागमेनेदानीमहं जयेयम् ॥ ६७ ॥ इत्येवममुना कथने प्रसङ्गं संप्रधार्याथ प्रसङ्गात्सदस्यमुं यमिनं कामशास्त्रस्य रहस्य मसौ विदुषी सरस्वत्यपृच्छत् ॥ ६८ । [ असैो पूर्वपकृता सरस्वती विदुषी । कुसुमे त्यत्राप्यन्वेति स्मरशास्त्रसारज्ञेत्यर्थः ।। ६८ ।। यदपृच्छत्तदुदाहरति । पुष्पधन्वनः कामस्य कलाः कियन्त्य इति संख्याविषयकः मश्रः । किमात्मिका इति स्वरूपविषयकः । कि स्थानमाश्रिता इति स्थानगोचरः । पूर्वे शुक्रे च पक्षेऽन्यथा कृष्णपक्षे या स्थितिस्तस्या विपर्थयेण तस्य केन प्रकारेण स्थितिरिति पक्षद्वयेऽपि तस्य स्थितिप्रकाराविषयः । कथं युवत्यां पुरुपे च कथमिति स्त्रीपुरुषयोर्वलक्षण्येन तस्य स्थितिविषयः ॥ ६९ ।।