पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । किमु तावतैव स निरीश्वरवा द्यभवत्परात्मविदुषां प्रवरः ॥ न निशाटनाहिततमः कचिद प्यहनि प्रभां मलिनयेत्तरणेः ॥ १५ ॥ इति जैमिनीयवचसां हृदयं कथितं निशम्य यतिकेसरिणा ।। मनसा ननन्द कविराग्नितरां स सशारदाश् सदसस्पतयः ॥ १६ ॥ विदिताशयोऽपि परिवर्तिमना ग्विशयः स जैमिनिमवाप हृदा ॥ अवगन्तुमस्य वचसाऽपि पुन स च संस्मृतः सविधमाप कवेः ॥ १७ ॥ ) [ अस्मदिति । निरुक्तरीतिकास्मदुक्तप्रकारेणेत्यर्थः । निषदा रहस्येनेति डिण्डिमकृत् । एवं च तन्मतेऽस्मदित्यादिविशेषणं निषदेति विशेष्यमिति समानाधिकरण एव तृतीये। वस्तुतस्तु । निषदोपनिषदा सह ] [ बुधाः साधारणपण्डिताः ] ॥ १४ ॥ परमेश्वरपरानुमानखण्डनमात्रेण तस्यानीश्वरवादित्वं न संभवतीत्याह । किमु ताव तैव स परात्मविदुषां प्रवरो निरीश्वरवाद्यभवन्निशाटनैर्मेचकादिभिराहितं स्थापितं तमी दिवसे तरणेः सूर्यस्य प्रभां कचिदपि न मलिनयेत्रैव मलिनां कुर्यात् ॥ १५ ॥ [ परेति । परमात्मनिष्ठानां मध्य इत्यर्थः ] [ नेति । निशाटना उलूकादयो हि नन्तंचवरत्वेन सुपसिद्धा एव । तैराहितं कल्पितम् ] ॥ १५ ॥ इत्येवंप्रकारेण यतिासिंहेन कथितं जैमिनीयवचनानां हृदयं निशम्य स कविरा एमण्डनो मनसाऽत्यन्तं ननन्द शारदया सह वर्तमानाश्च सभानायकास्तथैव ननन्दुः ॥१६॥ [ हृदयं तात्पर्यम् ] [ अत्र मनसेति पदेन वास्तविकार्थकथनशालित्वमाचार्ये सूच्यते ] ॥ १६ ॥ ३४७ यविराजोक्त्या विदिताभिमायोऽपि स मण्डनः परिवैत वर्तमानो मनागीषद्विज्ञायः संशयो यस्य सोऽस्य जैमिनेर्वचसाऽपि च तमभिप्रायमवगन्तुं मनसा जैमिनिं प्राप तस्य ध्यानं कृतवान्स च जैमिनिः कवेर्मण्डनस्य समीपमवाप ॥ १७ ॥

  • क. सह शा'। २ ख. 'वर्त'।