पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ श्रीमच्छकरदिग्विजयः । [ सर्गः ९] ननु कर्तृपूर्वकमिदं जगदि त्यनुमानमागमवचांसि विना ॥ परमेश्वरं प्रथयति श्रुतय स्त्वनुवादमात्रमिति काणभुजाः ॥ ११ ॥ न कथंचिदौपनिषदं पुरुषं मनुते बृहन्तमिति वेदवचः ॥ कथपत्यवेदविदगोचरतां गमयेत्कथं तमनुमानमिदम् ॥ १२ ॥ इति भावमात्मनि निधाय मुनि स निराकरोन्निशितयुक्तिशतैः ॥ अनुमानमाश्वरपर जगतः प्रभवं लयं फलमपीश्वरतः ॥ १३ ॥ तदिहास्मदुक्तविधया निषदा न विरुद्धमण्वपि मुनेर्वचसि ।। इति गूढभावमनवेक्ष्य बुधा स्तमनीशवाद्ययमिति बुवते ।। १४ ।। अनुमानगम्यं तं निराकृतवान्न तु वेदनिचयगम्यमिति समाधते भगवान्। नन्विति । इदं जगत्कर्तृपूर्वकं कार्यत्वाद्धटादिवदित्यनुमानं वेदवचांसि विना परमेश्धरं साधयाति श्रुतयस्त्वनुमानसिद्धार्थस्यानुवादमात्रमिति काणभुजाः काणादाः ॥ ११ ॥ औपनिषदमुपनिषदेकगम्यं बृहन्तं पुरुषमवेदवित्कथंचिदपि न मनुते न विजानातीति वेदवचः परमात्मनोऽवेदविदगोचरतां कथयति । तथाच श्रुतिः ‘तं त्वौपनिषदं पुरुषं पृच्छामि । नावेदविन्मनुते तं बृहन्तम्’ इति । तस्मादिदं काणादोक्तमनुमानं तं कथं गमयेदिति भावमिति परेणान्वयः ॥ १२ ॥ [ अवेदविदिति । वेदहृदयान भिज्ञाविषयत्वमिति यावत् ] ॥ १२ ॥ इत्युक्त भावमात्मनि बुद्धौ निधाय स मुनिस्तीक्ष्णयुक्तिशतैरीश्वरपरमनुमानं निरा करोत् । तथेश्वराजगतः प्रभवं प्रलयं फलं च निराकरोत् ॥ १३ ॥ [ जगतः प्रभ वम् । उपलक्षणमिदं स्थित्यादेरपि ] [ फलमपि यावजीवानां सुखदुःखसाक्षात्कारल क्षणं कर्मफलमपीत्यर्थः ] [ यद्वा प्रभवलयशब्दौ जन्मप्रलयपरावेव । फलमित्यादि स्थितिपरम्] ॥ १३ ॥ तत्तस्मादिहास्मिन्मुनेर्वचस्यस्मदुक्तविधया निषदारहस्येनाण्वपि विरुद्धं न भवति । तथाचोक्तं गूढभावमनवेक्ष्य बुधास्तं जैमिनिमनीश्वरवाद्ययमिति कथयन्ति ॥ १४ ॥