पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । अवदश्च शृण्विति स भाष्यकृति प्रजंहाहि संशयमिमं सुमते ।। [ सर्गः ९ ] ह्रदयं तदेव मम नापरथा ॥ १८ ॥ न ममैव वेद त्दृदयं यमिरा डपितु श्रुतेः सकलशास्रततेः । यदभूद्रविष्यति भवत्तदपि ह्ययमेव वेद न तथा त्वितरः ॥ १९ ॥ गुरुणा चिदेकरसतत्परता निरणापि हि श्रुतिशिरोवचसाम् ॥ कथमेकसूत्रमपि तद्विमतं कथयाम्यहं तदुपसादितधीः ॥ २० ॥ अलमाकलय्य विशायं सुयशः शृणु मे रहस्यमिममेव परम् ॥ त्वमैवेहि संसृतिनिमग्रजनो तरणे गृहीतवपुषं पुरुषम् ॥ २१ ॥ स जैमिनिः शृण्वित्यवदच हे सुमते भाष्यकारे श्रीशंकरे । एतेनोक्त एव मुनेरा शाय उतान्य इतीमं संशयं परित्यज । यतो मम सूत्रततेर्यदृदयमेषोऽवोचत्तदेव मम हृदयं नान्यथा ॥ १८ ॥ किंच न केवलं ममैव हृदयं यमिराङ्जानात्यपि तु श्रुतेः सर्वशास्त्रततेश्च हृदयं वेद यच्च भूतं भविष्यं वर्तमानं तदप्ययमेव वेदेतरस्तु न तथा वेद ॥ १९ ॥ तथाचैतदुक्त एव ममाशायो व्यासशिष्यस्य मम तद्विरुद्धकथनासंभवादित्याह । गुरुणा श्रीवेदव्यासेन वेदान्तवचसां चिदेकरसतत्परता निरणायि तद्विरुद्धमेकसूत्रम प्यहं कथं कथयामि यतस्तस्मात्परिमाप्तबुद्धिः ॥ २० ॥ [चिदेकेति । अद्वैतब्रह्मा मात्रपर्यवसायितेति यावत् ] ॥ २० ॥ तस्माद्धे सुयशाः संशयमलमाकलय्यालं कृत्वा विमुच्य मम वचनाद्रहस्यं शृणु । संसृतिसागरनिमग्रजनोत्तरणार्थं गृहीतविग्रहं परं पुरुषं परमात्मानं शिवमेवेमं त्वं जानीहि । यद्वेममेव परं पुरुषमेवेहि । ननु निर्विग्रहस्य तस्य कथं तद्वतेत्याशा ङ्कयाऽऽह । संसृतीति ॥ २१ ॥ १ ग. 'जहीहि । २ ग. 'पि त्वय'। ३ क. ख. घ. 'मवैहि । ४ क. 'करे । स ते'। ५ क. ख. घ. 'मवैहि ।