पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । इत्थं यतिक्षितिपतेरनुमोद्य युक्ति मालां च मण्डनगले मलिनामवेक्ष्य ॥ भिक्षार्थमुचलतमद्य युवामितीमा वाचष्ट त पुनरुवाच यतंiन्द्रमम्बा ॥ ३२ ॥ कोपातिरेकवशतः शपता पुरा मां दुवाससा तदवधिर्विहितो जयस्ते ।। साऽऽहं यथागतमुपैमि शामिप्रवीरे त्युक्त्वा ससंभन्नमममुं निजधाम यान्तीम् ॥ ३३ ॥ बबन्ध निःशङ्कमरण्यदुर्गा मत्रेण तां जेतुमना मुनीन्द्रः । जयोऽपि तस्याः स्वमतैक्यसिद्धयै सार्वज्ञतः स्वस्य न मानहेतोः ॥ २४ ॥ सूक्तयः प्रम्लानवदनतया सरलोक्तयस्तासां जननी निर्मत्री भगवती सरस्वत्येव साक्षित्वकुक्षिभरिः साक्षित्वपोषिका यस्यां सा ] ॥ ३१ ॥ इत्थमेवं प्रकारेण यतिराजस्य युक्तिमनुमोद्य मालां च मण्डनगले मलिनामवेक्ष्याद्य युवां भिक्षार्थमुचलतमितीमौ शंकरमण्डनावाचष्टोवाचाम्बा सरस्वती तं यतीन्द्रं पुन रुवाच ।। ३२ ॥ [ भिक्षार्थमुचलतम् । संन्यासकरणमतिज्ञापरिपालनावसराप्त्या श्रीशंकरविश्धरूपाभ्यामुभाभ्यामपि भिक्षार्थमेव व्युत्थातव्यमित्यर्थः ] ॥ ३२ ॥ पुरा कोपातिरेकवशादो मां ज्ञापता दुर्वाससा तव जयस्तस्यावविर्विहितस्तस्य जात त्वात्साऽहं हे शमिवीर यथागतमुपैम्यनुगच्छामीत्येवममुं ससंभ्रममुक्त्वा निजधाम यान्तीं बबन्धेत्यन्वयः । ससंभ्रमं यान्तीमिति वा ॥ ३३ । [ तदवधिमनुष्यशरीरधा रणरूपशापावधिरित्यर्थः । निजेति । स्वस्थानीभूतं सत्यलोकं प्रतीति यावत्]॥३३॥ निःशङ्कमरण्यदुर्गामश्रेण वनदुर्गामश्रेण मुनीन्द्रः श्रीशंकरो बबन्व । किमर्थमित्यपे क्षायामाह । तां सरस्वतीं जेतुमनाः । ननु यतीन्द्रस्य तस्य तजयासिद्धमानेन किमित्या शङ्कयाऽऽह । तस्याः सरस्वत्या जयोऽपि स्वमतैक्यसिद्धयै न तु स्वस्य सर्वज्ञतानि मित्तकमानपूजादिसिद्धयर्थम् । उपजातिवृत्तम् ॥ ३४ ॥ [ अरण्येति । एतन्नाम्रा मत्रशास्त्रमसिद्धा नवकोटिशक्तिगणगा काचिद्देवता तस्यास्तत्पसिद्धो यो मश्रस्तेने त्यर्थः । बबन्ध रुरोध ] ॥ ३४ ॥ १ ख. 'ण मु'। २ क. 'भि ३४१ ।। ३५ ।।