पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० ( { श्रीमच्छकरदिग्विजयः । [ सर्गः ८ ] इत्याद्या दृढयुक्तिरस्य शुशुभे दत्तानुमोदा गिरां देव्या तादृशविश्वरुपरभसावष्टम्भमुष्टिंधया ॥ भर्तृन्यासविलंक्ष्यसूक्तिजननीसाक्षित्वकुक्षिंभरि सश्लाघादुतपुष्पवृष्टिलहरीसौगन्ध्यपाणिंधया ॥ ३१ ॥ उपसंहरति । इतीति । अस्य श्रीशंकरस्येत्याद्या दृढयुक्तिः शुशुभे । आद्यपदेन । मुक्तोऽश्रुते कामगणान्सहेशेत्येवं वदन्ती खलु तैत्तिरीया । श्रुतिर्विना भेदमबाध्यमर्थाद्वीना सती सत्त्वममुष्य वक्ति ॥१॥ मैवं यतोऽज्ञाननिवृत्तितोऽयं सत्यामितानन्दचिदात्मभावम् । गताऽश्रुत साम्य स सर्वकामास्तदन्तरस्थानाव सा ब्रवात ॥ २ ।। द्रष्टव्य आत्मेति' परात्मनोर्वाकर्मत्वकर्तृत्वमियं हि वक्ति । संदर्शनेऽतो यतिराज भेदः सत्योऽन्यथा स्याच्छुतिरप्रमाणम् ॥ ३ ।। नेयं श्रुतिस्तात्विकभेदगाऽस्त्यद्वैतश्रुतेर्वेदविदां वरेण्य । विरोधतो ब्रह्मपरत्वतोऽस्यास्तात्पर्यगत्या किल मानभावः ।। ४ ।। नन्वस्त्वभेदश्रुतिरेव योगिन्मकल्पिताभेदपरेति मैवम् । प्रातीतिको वा व्यवहारसिद्धो भेदो न वै भेदाभितप्रकोपात् ॥ ५ ॥ अथास्तु भेदे यतिशेखरार्थापत्तिर्न चैवं ननु सत्यभेदम् । विनोपपत्त्या रहितो न चार्थस्तस्मादभेदार्थश्रुतिर्बलिष्टा ।। ६ ।। स्याचेदभेदोऽस्य पररात्मना मुने तह्यपलभ्येत न चोपलभ्यते । तस्मादसौ नास्ति ततो यते भिदा षष्ठप्रमाणस्य तु गम्यतां गता ॥७॥ यथावृतो नैव घटः प्रदृश्यते तथाऽऽवृतोऽसावपि नैव भासते । अविद्यया तरवविदामनावृतः प्रकाशतेऽतो न भिदाऽन्त्यमानगा' ॥८॥ इत्यादिदृढयुक्तिजातं ग्राह्यम् । तां विशिनष्टि । गिरां देव्याऽधिष्ठातृदेवतया सरस्वत्या दत्तोऽनुमोदो यस्यै तयाऽनुमोदितेति यावत् । तथा तादृशस्य विश्धरूपस्य मण्डनस्य यो रभसाऽवष्टम्भो वेगस्य हर्षस्य वा स्तम्भस्तस्य मुष्टिवया निष्पीय सारा कर्षिका तथा भर्तुन्यासस्य संन्यासस्य विलक्ष्येण संव्याजेन या सूक्तिस्तस्या जननी सरस्वत्येव साक्षित्वकुक्षिभरिः साक्षित्ववती यस्यास्तथा श्लाघया सह वर्तमाना याऽ दुतपुष्पवृष्टिलहरी तस्याः सौगन्ध्यस्य पाणि वयति इस्तं पिबतीति तथा शार्दूलवि क्रीडितं वृतम् ॥ ३१ ॥ [ भर्तृन्यासेति । भर्तृविश्वरुपपण्डितस्य योऽयं न्यासः पूर्वो क्तप्रतिज्ञया संन्यासस्तेन यद्विलक्ष्यं विगतं लक्ष्यं विलक्ष्यमभिमतच्यवनं तेन याः १ ख. ग. 'लक्षसू। २ ग. सोम्य । ३ ग. 'ति वचः प'। ४ ग.त्मनोः क'। ५ ग. मिदं. हि ।