पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । भेदं वदन्ती व्यवहारसिद्धं न बाधतेऽभेदपरश्रुतिं सा ॥ एषा त्वपूर्वार्थतया बलिष्ठा भेदश्रुतेः प्रत्युत बाधिका स्यात् ॥ २८ ॥ मानान्तरोपोद्धलिता हि भेद श्रुतिर्बलिष्ठा यमिनां वरेण्य ॥ तद्धाधितुं सा प्रभवत्यभेद श्रुतिं प्रमाणान्तरबाधितार्थाम् ॥ २९ ॥ प्राबल्यमापादयति श्रुतीनां मानान्तरं नैव बुधाग्रयायिन ॥ गतार्थतादानमुखेन तासां दौर्बल्यसंपादकमेव किंतु ॥ १३० ॥ भर्तं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराधे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्रयो ये च त्रिणाचिकेता इति कठवलीस्था श्रुतिरभेदश्रुतेबाँधिकाऽस्त्वित्याह । ऋतं कर्मफलं पिबन्ती पानप्रयोज्यप्रयोजकाविति काठकेषु श्रुतिस्तु 'छायातपौ यद्वदतीव भिन्नौ जीवेश्धरौ तद्वत्' इति बुवाणाऽभेदश्रुतेबाँधिकाऽस्तु । उपजातिवृत्तम् ॥ २७ ॥ इयमपि श्रुतिर्न बाधिका प्रत्युत बाध्येति परिहरति भगवान् । व्यवहारसिद्धं भेदं वदन्ती सा भेदश्रुतिस्तदसिद्धाभेदपरां श्रुतिं न बाधते प्रत्युतापूर्वोऽर्थो यस्यास्तत्त याऽपूर्वार्थबोधकतया बलिधैषाऽभेदश्रुतिभेदश्रुतेर्वाधिका स्यात् ॥ २८ ॥ [ अपू वेति । अज्ञातज्ञापकतयेति यावत् ] ॥ २८ ॥ एवमुक्तो मण्डन आह । प्रमाणान्तरेण प्रत्यक्षेणोपोद्वलितोपहिता भेदश्रुतिहें यमिनां वरेण्य बलिष्ठा ततस्मात्सा भेदश्रुतिः प्रत्यक्षमाणबाधितार्थामभेदश्रुर्ति बाधितुं प्रभवति न त्वभेदश्रुतिभेदश्रुतिमित्यर्थः ॥ २९ ॥ परिहरति भगवान् । हे बुधानामग्रयायिन्प्रमाणान्तरं श्रुतीनां प्राबल्यं नाऽऽपाद् यति किंतु गतार्थतादानमुखेन तासां श्रुतीनां दौर्बल्यसंपादकमेव । बुधाग्रयायिनस्तवे यमुक्तिरशोभनेति संबोधनाशयः ॥ १३० ॥ [ गतार्थतेति । अनुवादकत्वसंपादन द्वारा ] ॥ ३० ॥ १ क.'ति हे ३३९ च