पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ जानामि देवीं भवतीं विधातु दैवस्य भार्या पुरभित्सगभ्यम् ॥ उपात्तलक्ष्म्यादिविचित्ररुपां गुस्य प्रपञ्चस्य कृतावताराम् ॥ ३५ ॥ ब्रज जननि तदा त्वं भक्तचूडामणिस्ते निजपदमनुदास्याम्यभ्यनुज्ञां यदैतुम् ॥ इति निजवचनेऽस्मिञ्शारदासंमतेऽसौ मुनिरथ मुदितोऽभून्माण्डनं हृद्धभुत्सुः ॥ ९२० ॥ इति श्रीमाधवीये तन्मण्डनार्यकथापरः ॥ संक्षेपशंकरजये सगेऽसावष्टमोऽभवत् ॥ ८ ॥ मश्रेण बद्ध्वा किमुक्तवानित्यपेक्षायां तद्वचनमुदाहरति । देवस्य विधातुर्बह्मणो भार्या त्रिपुरसंभेदकस्य महादेवस्य सगभ्य सहोदरामुपात्तं लक्ष्म्यादीनां विचित्रं रूपं यया तथाभूतामिदानीं प्रपञ्चस्य रक्षणार्थे कृतावतारां देवीं भवतीं सरस्वतीं स्वामहं जानामि' । सरस्वत्याः शिवसगभ्र्यत्वम् । 'नीलकण्ठं रक्तबाहुं धेताङ्गं चन्द्रशेखरम् । जनयामास पुरुषं महाकाली सितां स्त्रियम्' इत्यादेरवगन्तव्यम् ॥३५॥[जानामीति । एतेनस्वस्मिन्नतिौढत्वं द्योत्यते]॥३५॥ तस्माद्धे जनानि ते भक्तचूडामणिरहं यदा निजस्थानमेतुं गन्तुमभ्यनुज्ञामभिदास्यामि तदा त्वं निजपदं व्रजेत्येवंभूते निजवचने शारदया सरस्वत्या संमते सति माण्डनं हृन्मण्डनस्याभिप्रायं ज्ञातुमिच्छुरसौ मुनिः श्रीशंकरो मुदितोऽभूत् । मालिनी वृत्तम् ॥ ३६ ॥ [ अत्र भक्तपदेन ‘यो मद्भक्तः स मे पियः' इति “तेषां ज्ञानी नित्ययुक्त एकभक्तिवैिशिष्यते । मियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः' इति च स्मृतेजीवन्मुक्तचक्रवर्तित्वं व्यज्यते ] ॥ ३६ ॥ [उपसंहरति । इतीति । तदिति । तेन सह यो मण्डनार्यस्य मण्डनमिश्रस्य कथावा दस्तत्पर इत्यर्थः ] ॥ ८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतर्थिश्रपूिज्यपाद शिष्यदत्तवंशावतंसरामकुमारसूनुधनपतिसूरिकृते श्रीशं कराचार्यविजयडिण्डिमेऽष्टमः सर्गः ॥ ८ ॥ १ क. 'मि । ३५ ॥ [जानामि ।