पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । प्रातः शोणसरोजबान्धवरुचिप्रद्योतिते व्योमनि प्रख्यातः स विधाय कर्म नियतं प्रज्ञावतामग्रणीः । साकं शिष्यवरैः प्रपद्य सदनं सन्मण्डितं माण्डनं वादायोपविवेश पण्डितसभामध्ये मुनिध्र्येयवित् ॥ ५७ ॥ ततः समादिश्य सदस्यतायां सधार्मिणीं मण्डनपण्डितोऽपि ॥ स शारदां नाम समस्तविद्या विशारदां वादसमुत्सुकोऽभूत् ॥ ५८ ॥ पत्या नियुक्ता पतिदेवता सा सदस्यभावे सुदती चकाशे ॥ तयोर्विवेतुं श्रुततारतम्यं समागता संसदि भारतीव ॥ ५९ ॥ प्रवृद्धवादोत्सुकतां तदीयां विज्ञाय विज्ञः प्रथमं यतीन्द्रः ॥ परां प्रांतज्ञामकरोत्स्वकीयाम् ॥ ६० ॥ प्रातःकाले शोणसरोजानां रक्तकमलानां बान्धवस्य सूर्यस्य रुचव्या कान्त्या पद्यो तिते व्योमन्याकाशे सति स यतिंप्रवरः प्रज्ञावतामग्रणीनियतं नित्यं कर्म स्नानादि विधाय शिष्यवरैः साकं मण्डनस्येदं मण्डनं सदनं भवनं सद्भिर्मण्डितं प्रपद्य प्राप्य ध्येयं ब्रह्म जानातीति ध्येयविन्मुनिः पण्डितसभामध्ये वादायोपविवेश । पाठान्तरे तु मण्डनं प्रतीति व्याख्येयम् । शार्दूलविक्रीडितं वृत्तम् ॥ ५७ ॥ [ शोणपदं सरोजबा न्धवेन सूर्येण सहैव संबद्धयते ] ॥ ५७ ॥ ततः सभामध्ये वादार्थे यतेरुपवेशनस्यानन्तरं स मण्डनपण्डितोऽपि सधर्मिणीं भार्या शारदां सरस्वतीं नाम प्रसिद्धां समस्तविद्यासु विशारदां कुशलां सदस्यतायां सभाना यकतायां समादिश्य वादं प्रति समुत्सुकः सम्यगुत्कण्ठितोऽभूत् । उपेन्द्रवज्रा वृत्तम् ॥ १८ ॥ सा शारदा पतिदेवता सुषुदन्तवती सदस्यभावे पत्या नियुक्ता चकाशे तयोर्यति मण्डनयोः श्रुतस्य तारतम्यं विवेतुं समागता संसदि भारतीव ॥ ५९ || [ सुदतीत्य नेन नैसर्गिकस्मितशालित्वं तस्यां सूच्यते ] ॥ ५९ ॥ ददनन्तरं भगवान्भाष्यकारः किं कृतवानित्यपेक्षायामाह । तदीया पवृद्धा या १ ख. 'ति'५'।