पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । ३१३ ब्रमैकं परमार्थसचिदमलं विश्वप्रपञ्चात्मना शुक्ती रुप्यपरात्मनेव बहलाज्ञानावृतं भासते ॥ तज्ज्ञानान्निखिलप्रपञ्चनिलया स्वात्मव्यवस्था परं निर्वाणं जनिमुक्तमभ्युपगतं मानं श्रुतेर्मस्तकम् ॥ ६१ ॥ बाढं जये यदि पराजयभागहं स्यां संन्यासमङ्ग परिहृत्य कषायैचेलम् ॥ शुछं वसीय वसनं द्वयभारतीयं वादे जयाजयफलप्रतिदीपिकाऽस्तु ॥ ६२ ॥ इत्थं प्रतिज्ञां कृतवत्युदारां श्रीशंकरे भिक्षुवरे स्वकीयाम् ॥ स विश्वरुपो गृहमेधिवर्य श्चक्रे प्रतिज्ञां स्वमतप्रतिष्ठाम् ॥ ६३ ॥ चादोत्सुकता तां विज्ञाय विशैः पराभिप्रायज्ञः परं कारणमवरं कार्ये यद्वा परं भवि ऽयमवरं भूतं ते परावरे जानातीति परावरज्ञो यद्वा परे ब्रह्मादयोऽवरे यस्मात्तं परमा त्मानं जानातीति तथा परावरावीशजीवावभेदेन जानातीति वा । अत एतादृशाः स यतीन्द्रः प्रथमं परावरयोरीशजवियोरैक्यपरां स्वकीयां प्रतिज्ञामकरोत् ॥ ६० ॥ तामेवोदाहरति । ब्रोकं परमार्थसचिद्मलं बहलेन निबिडेनानादिसिद्धेनाज्ञा नेनाऽऽवृतं सत्सकलप्रपश्वात्मना भासते शुक्तिर्यथा रूप्यपरात्मना रूप्यात्मकपरस्वरू पेण भासते तद्वत्तस्य परावरैक्यस्य ज्ञानान्निखिलप्रपञ्चस्य नितरां कारणेनाज्ञानेन सह लयो बाधो यस्यामेवंविधा या स्वात्मनि व्यवस्था व्यवस्थितिः सा परं निर्वाणं जनिमुक्तं जन्मविनिर्मुक्तमभ्युपगतमस्यां प्रतिज्ञायां प्रमाणं श्रुतेर्मस्तकं वेदान्ताः पमाण मिष्टम् । तथाच श्रुतेर्मस्तकम्। ‘एकमेवाद्वितीयम्'सत्यं ज्ञानमनन्तम्'।'विज्ञानमानन्दं ब्रह्म'।*सर्वं खल्विदं ब्रह्म'।'वाचारम्भणं विकारो नामवयं मृत्तिकेत्येव सत्यम्'।'तररात शोकमात्मवित्'। तत्र को मोहः कः शोक एकत्वमनुपश्यतः'।'ब्रह्म वेद ब्रवैव भवति

  • न स पुनरावर्तते न स पुनरावर्तते' इत्यादि । शार्दूलविक्रीडितं वृत्तम् ॥ ६१ ॥

तत्र पणं दर्शयति । बाढमिति । दृढेऽप्यस्मज्जये यदि पराजयभागहं स्यां वहङ्ग हे मण्डन कषायवस्र संन्यासं परित्यज्य शुकं वस्त्रं वसीयाऽऽच्छादनार्थमङ्गी कुर्या क्रियमाणे वादे जयाजयफलस्य प्रतिदीपिकेयमुभयभारत्यस्तु । वसन्ततिलका वृत्तम् ॥ ६२ ॥ विश्धरूपो मण्डनः स्वमते प्रतिष्ठा यस्यास्तथाभूतां प्रतिज्ञाम्। उपजातिवृत्तम् ॥६३॥ ५ क. घ. 'य चैल'। ५ ख. घ. 'ज्ञः परं । ३ ख. 'लं नि'।