पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] घनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । भुक्वोपविष्टस्य मुनित्रयस्य श्रमापनोदाय तदीयशिष्यौ । अतिष्ठतां पाश्र्वगतौ बटू द्वौ सचामरौ वीजनमाचरन्तौ ॥ ५३ ॥ अथ क्रियान्ते किल पविष्टा स्रवय्यन्तवेद्यार्थविदस्रयोऽमी ॥ मुहूर्तमात्रं किमपि प्रहृष्टाः ॥ ५४ ॥ तेषां द्विजेन्द्रालयनिर्गताना मदर्शनं जग्मतुरक्षसा द्वौ । रेवातटे रम्यकदम्बसाले देवालपेऽवस्थितवांस्तृतीयः ॥ ५५ ॥ इति स यतिवरेण्यो दैवयोगाद्ररूणा मितरजनदुरापं दर्शनं प्राप्य हृष्टः ॥ तदुदितवचनानि श्रावयमात्मििशष्या ननयदमृततुल्यान्यात्मवित्तां त्रियामाम् ॥ ५६ ॥ वीजनं चामरसंचालनमाचरन्तौ स्थितवन्तौ ॥ ५३ ॥ भग्यजुःसामाख्यवेदत्रय्या अन्त उपनिषद्भागस्तेन तत्र वा वेद्यमर्थ परैमपुरुषार्थ भूतं परमात्मानं जानन्तीति त्रयन्तवेद्यार्थविदोऽमी त्रयो व्यासजैमिनिशंकराः क्रियायाः पूर्वोक्ताया अभन्ते सूपविष्टाः परस्परं प्रहृष्टास्ते मुहूर्तमात्रं चारु किमप्यऽमत्र यन् ॥ ५४ ॥ द्विजेन्द्रस्य मण्डनस्य गृहान्निर्गतानां मध्ये द्वौ व्यासजैमिनी शीघ्रमदर्शनं प्रापतुस्तृ दीयः शंकराचार्यो रेवाया नर्मदायास्तटे रम्याः कदम्बाः सालाश्च यस्मिस्तस्मिान्स्थत देवालयेऽवस्थितवान् ॥ ५५ ॥ इत्येवंप्रकारेण यतिश्रेष्ठो गुरूणमिति बहुवचनमादराथै व्यासजैमिन्योर्दर्शनमितर जनैः मासुमशक्यं दैवयोगात्प्राप्य दृष्टस्तैर्गुरुभिरुदितानि वचनान्यमृततुल्यानि स्वशि

  • याञ्श्रावयं स्तां त्रियामां रात्रिमात्मविदनयत् । मालिनी वृत्तम् ॥ ५६ ॥

१ क. 'गतावबुद्धौ स'। ३११ २ क. 'रपूरु'।